This page has not been fully proofread.

काव्यकल्पलंतावृत्तिः ।
 
स्तबक: ३ ]
 
एवं सर्वशब्देषु शब्दान्तराणि गवेषणीयानि ।
 
शब्दस्य सकलान् वर्णान् स्वरैः सर्वैः क्रमाक्रमात् ।
संयोज्य जनिताः शब्दाचित्रानुप्रास सिद्धिदाः ॥ १४ ॥
एते शब्दाश्छन्दोभ्यासस्तबके शब्दभेदजशब्द विवरणात् ज्ञेयाः ॥
इति श्रीजिन० शब्दसिद्धिप्रताने द्वितीयेऽनुप्रासस्तबकस्तृतीयः ।
 
अथ मुख्यलाक्षणिकव्यञ्जकानां शब्दानां स्वरूपमाह-
शब्दो मुख्यो लाक्षणिको व्यञ्जकश्च त्रिधा मतः ।
मुख्यार्थवाचको मुख्यो व्यापारोऽर्थेऽस्य चाऽभिधा ॥ १७५ ॥
लक्ष्याश्रितो लाक्षणिको व्यापारो लक्षणाऽस्य तु ।
 
व्यङ्ग्ययुक्तो व्यञ्जकोऽस्य व्यापारो व्यञ्जनं मतम् ॥ १७६ ॥
साक्षात्लङ्केतविषयो गोपिण्डादिर्वाच्यो मुख्योऽर्थस्तदभिधायी गोप्रभृतिशब्दोऽपि
मुख्य शब्दस्य मुख्यायें व्यापारः संकेतापेक्षा, वाच्याऽवगमनशक्तिरभिधा । लक्ष्यलक्षक-
स्य लाक्षणिकशब्दस्य लक्ष्यनिष्ठो व्यापारी, लक्ष्यावगमनशक्तिलक्षणा । व्यङ्ग्यव्यञ्जन-
क्षमस्य व्यञ्जकशब्दस्य व्यङ्ग्यनिष्ठो व्यङ्गयात्रगमनशक्तिर्व्यञ्जनम् ।
 
४३
 
——
 
मुख्यार्थबाधे मुख्यार्थासन्नत्वे लक्ष्यतेऽपरः ।
 
रूढेः प्रयोजनाद्वाऽर्थो यत्सोक्ता लक्षणा बुधैः ॥१७७ ॥
मुख्यार्थबाधाऽनुपपत्तेरनुपयोगाञ्च 'कर्मणि कुशल: ', 'गङ्गायां घोषः' इत्यादा-
वनुपपत्ति: । 'रामोऽस्मि सर्व सहे' इत्यादावनुप्रयोगः । अत्र प्रस्तावादभिधेयप्रतिपत्तौ
रामशब्दोऽनुप्रयुज्यमानत्वात् बाधितार्थः स्वाभिधेयभूतार्थगामित्वरूप सम्बन्धाद्वाज्य-
अंशप्रवास
पितृसीता वियोगादिदुःखपात्रत्वं लक्षयति । असामान्यनिर्वेदादिव्यङ्गयं प्रयो
जनम् । मुख्यार्थासन्नत्वं पञ्चधा । यदुक्तम्-
'अभिधेयेन सम्बन्धात् सादृश्यात् समवायतः ।
 
चैपरीत्यात् क्रियायोगात् लक्षणा पञ्चधा मता' ।
 
-
 
अभिषेयं मुख्यार्यस्तेन सह सम्बन्धो यथा - 'गङ्गायां घोषः' । अत्र गङ्गाशब्दा-
ऽभिधेयस्य स्रोतसो घोषाधारतानुपपत्तेः मुख्यार्थबाधे योऽयं समीपसमीपिभावात्मा
सम्बन्धस्तदाश्रयणेन गङ्गाशब्दस्त लक्षयति । गङ्गात्वे एकार्थसमवेतपुण्यत्वमनोरम-
त्वशैत्यादिप्रतिपादनं व्यङ्ग्यं प्रयोजनम् । न हि तत्पुण्यत्वादि गङ्गातट इत्यादिशब्दा-
तरैः स्त्रष्टुमपि शक्यते । सादृश्याद्यथा- 'गौर्वाहीकः', गौरेवायं' वा इत्यादौ मुख्या
र्थस्य सास्नादिमच्चादेः प्रत्यक्षादिप्रमाणेन बाधे अभिधेयेन सादृश्या त्तद्गतजाढ्य-
मान्यादिगुणयुक्तो वाहीको लक्ष्यते ।
प्रयोजनं सारोपार्या ताद्रूध्यप्रतिप्रत्तिः ।
साध्यवसानायां सर्वथाऽभेदप्रतिपत्तिः । समवायात्साहचर्या द्यथा- 'कुन्ताः प्रविश-
न्ती त्यादौ कुन्तानां प्रवेशानुपपत्त्या मुख्यार्थबाघे साहचर्यात् यथा कुन्तवन्तः
पुरुषा लक्ष्यन्ते । प्रयोजनं तु रौद्रत्वादीनां सातिशयानां प्रतिपादनम्। वैपरीत्या
 
-