This page has been fully proofread once and needs a second look.

धर्मकर्मकर्मसाक्षी पवित्रश्चित्रभानुवत् ।
अर्यमा वर्यमाहात्म्यसत्पूतः सप्तसप्तिवत् ॥ १६१ ॥
 
आर्त्तं मार्त्तण्डचण्डश्रीर्मणिर्दिनमणिद्युतिः ।
द्योतनः प्रद्योतनवत् सहस्रांशुमहःसहः ॥ १६२ ॥
 
भास्वद्भास्वद्भानुभानुः शौर्यसूर्यरविच्छवि: ।
पतङ्गचङ्गतरणितरस्वस्तिगभस्तयः ॥ १६३ ॥
 
विरोचनरोचनश्रीः पूषा भूषार्ककर्कशाः ।
नभो नभोमणिः प्रांशुः खरांशु: कोपगोपतिः ॥ १६४ ॥
 
दण्डदण्डधरो ध्वान्तकृतान्तसमविक्रमः ।
करालकालसद्धर्मो धर्मराजोऽन्तकान्तकृत् ॥ १६५ ॥
 
होना पीनाशकीनाशवर्तिना समवर्तिना ।
सुश्राद्धश्रद्धदेवेन शमनो दमनो द्विषाम् ॥ १६६ ॥
 
<error>संमदी</error><fix> संमदो</fix> कौमुदीकान्तः साक्षादाक्षायणीपतिः ।
दोषधीरोषधीभर्ता मुदः कुमुदबान्धवः ॥ १६७ ॥
 
दैवाज्जैवातृकः सोमः कोमलो बिन्दुरिन्दुवत् ।
विधुर्विधुरितो राजा राजानिस्तन्द्रचन्द्रमाः ॥ १६८ ॥
 
दक्षनक्षत्रनाथश्रीः रोहिणी रोहिणीशरुक् ।
स्फारातारापतिस्तारतारकास्तारकः प्रभुः ॥ १६९ ॥
 
गिरमाङ्गिरसक्षीबपीवजीवोऽगुरुर्गुरुः ।
धिषणो धिषणोदग्रश्चित्रश्चित्रशिखण्डिजः ॥ १७० ॥
 
वाचं वाचस्पतिः सौरिर्भूरिर्बृहद्बृहस्पतिः ।
सचिवार्यसुराचार्यसभृङ्गीपतिगीष्पतिः ॥ १७१ ॥
 
इति शब्दा नृपामात्यनृपपुत्रादिवर्णने ।
यथौचित्यं प्रयोक्तव्याः शीघ्रानुप्राससिद्धये ॥ १७२ ॥
 
अनुप्रासानयनोपायान्तरमाह--
 
आदिक्षान्तलिपौ कादिक्षान्तशब्दगवेषणम् ।
चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत् ॥ १७३ ॥
 
अकारादिक्षकारान्तशब्दे सति अन्ये तत्सदृशाः ककारादिक्षकारान्ताः शब्दा
वीक्ष्यन्ते, तदा चित्राऽनुप्रासयमकशब्दनिश्चयो भवति । यथा अरशब्दस्य सदृशाः
कादिक्षान्तशब्दाः यथासम्भवं लिख्यन्ते--अर कर खर गर घर चर घरट्ट जरया क्षरया
विड्वर तरणि संस्तर दर धर नर परस्पर अम्बर भर मर वर शरवण सर हर अक्षर ।
तथा--आर कार गार चार जार दार तार धार व्यापार स्फार भार मार वार सार हार
क्षार । तथा--आम काम ग्राम आचाम जामयः तामस दाम धाम नाम पामया याम
राम चाम श्याम साम क्षामाः । तथा--कीर चीर जीरक तीर नीर धीर भीरवः सीर होर
क्षीर कोटीर कुटीर वानीर महीरमणाः । तथा--अर्ण कर्ण तर्णक पर्ण वर्ण स्वर्ण अर्णव ।