This page has been fully proofread once and needs a second look.

४२
 
[ प्रतानः २-
अमरचन्द्रयतिकृता-
धर्मकर्मकर्मसाक्षी पवित्रश्चित्रभानुवत् ।
श्र

र्यमा वर्यमाहात्म्यसत्पूतः सप्तसप्तिवत् ॥ १६१ ॥
श्रा

 
आर्त्
तं मार्त्तण्डचण्ड श्रीर्मगिणिर्दिनमणिद्युतिः ।

द्योतनः प्रद्योतनवत् सहस्रांशुमहःसहः ॥ १६२ ॥

 
भास्वद्भास्वद्भानुभानुः शौर्यसूर्यविच्छवि: ।

पतङ्गचङ्गतरणितरस्वस्तिगभस्तयः ॥ १६३ ॥

 
विरोचनरोचनश्रीः पूषा भूषार्ककर्कशाः ।
 

नभो नभोमणिः प्रांशुः खरांशु: कोपगोपतिः ॥ १६४ ॥

 
दण्डदण्डधरो ध्वान्तकृतान्तसमविक्रमः ।

करालकालसद्धर्मो धर्मराजोऽन्तकान्तकृत् ॥ १६५ ॥

 
होना पीनाशकीनाशवर्तिना समवर्तिना ।

सुश्राद्धश्रद्धदेवेन शमनो दमनो द्विषाम् ॥ १६६ ॥

 
संमदीदो कौमुदीकान्तः साक्षादाक्षायणीपतिः ।

दोषधी रोषधीभर्ता मुदः कुमुदबान्धवः ॥ १६७ ॥

 
दैवाज्जैवातृकः सोमः कोमलो बिन्दुरिन्दुवत् ।

विधुर्विधुरितो राजा राजानिस्तन्द्रचन्द्रमाः ॥ १६८ ॥

 
दक्षनक्षत्रनाथश्रीः रोहिणी रोहिणीशरुक ।
क् ।
स्फारातारापतिस्तारतारकास्तारकः प्रभुः ॥ १६९ ॥

 
गिरमाङ्गिरसतीक्षीबपीवजीवोऽगुरुर्गुरुः ।
 
घि

धि
षणो धिषणोदग्रश्चित्रश्चित्र शिखण्डिजः ॥ १७० ॥

 
वाचं वाचस्पतिः सौरिर्भूरिर्बृहद्बृहस्पतिः ।

सचिवार्यसुराचार्यसभृङ्गीपतिगीष्पतिः ॥ १७१ ॥

 
इति शब्दा नृपामात्यनृपपुत्रादिवर्णने ।

यथौचित्यं प्रयोक्तव्याः शीघ्रानुप्राससिद्धये ॥ १७२ ॥

 
अनुप्रासानयनोपायान्तरमाह
-
 
श्रा
-
 
दिक्षान्तलिपौ कादिक्षान्तशब्द गवेषणम् ।

चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत् ॥ १७३ ॥

 
अकारादिक्षकारान्तशब्दे सति अन्ये तत्सदृशाः ककारादिक्षकारान्ताः शब्दा

वीक्ष्यन्ते, तदा चित्राऽनुप्रासयमकशब्दनिश्चयो भवति । यथा अरशब्दस्य सदृशाः

कादिक्षान्तशब्दाः यथासम्भवं लिख्यन्ते- -अर कर खर गर घर चर घरट्ट जरया क्षरया

विड्वर तरणि संस्तर दर र नर परस्पर अम्बर भर मर वर शरवण सर हर अक्षर ।
 

तथा--आर कार गार चार जार दार तार धार व्यापार स्फार भार मार वार सार हार

क्षार । तथा - -आम काम ग्राम आचाम जामयः तामस दाम धाम नाम पामया याम

राम चाम श्याम साम क्षामाः । तथा--कीर चीर जीरक तीर नीर धीर भीरवः सीर होर

क्षीर कोटीर कुटीर वानीर महीरमणाः । तथा--अर्ण कर्ण तर्णक पर्ण वर्ण स्वर्ण अर्णव ।