This page has not been fully proofread.

४२
 
[ प्रतानः २-
अमरचन्द्रयतिकृता-
धर्मकर्मकर्मसाक्षी पवित्रश्चित्रभानुवत् ।
श्रर्यमा वर्यमाहात्म्यसत्तः सप्तसप्तिवत् ॥ १६१ ॥
श्रातं मार्त्तण्डचण्ड श्रीर्मगिर्दिनमणिद्युतिः ।
द्योतनः प्रद्योतनवत् सहस्रांशुमहःसहः ॥ १६२ ॥
भास्वद्भास्वद्भानुभानुः शौर्यसूर्य र विच्छवि: ।
पतङ्गचङ्गतरणितरस्वस्तिगभस्तयः ॥ १६३ ॥
विरोचनरोचनश्रीः पूषा भूषार्ककर्कशाः ।
 
नभो नभोमणिः प्रांशुः खरांशु: कोपगोपतिः ॥ १६४ ॥
दण्डदण्डधरो ध्वान्तकृतान्तसमविक्रमः ।
करालकालसद्धर्मो धर्मराजोऽन्तकान्तकृत् ॥ १६५ ॥
होना पीनाशकीनाशवर्तिना समवर्तिना ।
सुश्राद्धश्रद्धदेवेन शमनो दमनो द्विषाम् ॥ १६६ ॥
संमदी कौमुदीकान्तः साक्षादाक्षायणीपतिः ।
दोषधी रोषधीभर्ता मुदः कुमुदबान्धवः ॥ १६७ ॥
दैवाज्जैवातृकः सोमः कोमलो बिन्दुरिन्दुवत् ।
विधुर्विधुरितो राजा राजानिस्तन्द्रचन्द्रमाः ॥ १६८ ॥
दक्षनक्षत्रनाथश्रीः रोहिणी रोहिणीशरुक ।
स्फारातारापतिस्तारतारकास्तारकः प्रभुः ॥ १६९ ॥
गिरमाङ्गिरसतीबपीवजीवोऽगुरुर्गुरुः ।
 
घिषणो धिषणोदग्रश्चित्रश्चित्र शिखण्डिजः ॥ १७० ॥
वाचं वाचस्पतिः सौरिर्भूरिबृहद्बृहस्पतिः ।
सचिवार्यसुराचार्यसभृङ्गीपतिगीष्पतिः ॥ १७१ ॥
इति शब्दा नृपामात्यनृपपुत्रादिवर्णने ।
यथौचित्यं प्रयोक्तव्याः शीघ्रानुप्राससिद्धये ॥ १७२ ॥
अनुप्रासानयनोपायान्तरमाह
-
 
श्रादिक्षान्तलिपौ कादिक्षान्तशब्द गवेषणम् ।
चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत् ॥ १७३ ॥
अकारादिक्षकारान्तशब्दे सति अन्ये तत्सदृशाः ककारादिक्षकारान्ताः शब्दा
वीक्ष्यन्ते, तदा चित्राऽनुप्रासयमकशब्दनिश्चयो भवति । यथा अरशब्दस्य सदृशाः
कादिक्षान्तशब्दाः यथासम्भवं लिख्यन्ते- अर कर खर गर घर चर घरट्ट जरया क्षरया
विड्वर तरणि संस्तर दर घर नर परस्पर अम्बर भर मर वर शरवण सर हर अक्षर ।
 
तथा-आर कार गार चार जार दार तार धार व्यापार स्फार भार मार वार सार हार
क्षार । तथा - आम काम ग्राम आचाम जामयः तामस दाम धाम नाम पामया याम
राम चाम श्याम साम क्षामाः । तथा-कीर चीर जीरक तीर नीर धीर भीरवः सीर होर
क्षीर कोटीर कुटीर वानीर महीरमणाः । तथा-अर्ण कर्ण तर्णक पर्ण वर्ण स्वर्ण अर्णव ।