This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
॥ १४३ ॥
 
कालिन्दीकर्षणोत्कर्षसोद्रेकस्त्वेककुण्डलः
लो
॥ १४३ ॥
 
ली
लां नीलाम्बरो भद्रबलभद्रो हली ली ।

कुशली मुशली तालध्वजोत्तालो लाद्वलः ॥ १४४ ॥

 
ततो लम्बः प्रलम्घ्नः क्ष्मापालः कामपालवत् ।

अनन्तानन्तसङ्ग्रामो रामकामः सरामवत् ॥ १४५ ॥

 
सङ्कल्पजन्मकल्पनीश्रीर्विषमो विषमायुधः ।
 

चञ्चत्पञ्चशरः पुष्पपुष्पास्त्रो घस्मरः स्मरः ॥ १४६ ॥

 
प्रद्युम्नद्युम्नकन्दर्पकन्दसद्दर्पदर्पकाः ।
 
स्तबकः ३ ]
 

मनो मनोभवो भव्यवदनो मदनोपमः ॥ १४७ ॥
पो

 
पी
नमीनध्वजः कामकामना मारसारता ।

शृङ्गारयोनिः शृङ्गारस्तम्बशम्बरसूदनः ॥ १४८ ॥

 
अनङ्गवङ्गसङ्गत्या मधुमित्रपवित्रभाः ।
 

अथ मन्मथवद्दूनप्रसूनशरभासुरः ॥ १४९ ॥

 
प्रजा प्रजापतिर्धर्ता जगत्कर्ता विधिर्विधिः ।
 

ब्रह्म सब्रह्मचारित्वं पितामहमहा महान् ॥ १५० ॥

 
स्रष्टा स्पष्टास्फुरन्मेधा वेधाः कमलभूरभूत् ।
 

स्वयम्भूमिः स्वयम्भूवद्धाता त्राता जगत्रयीम् ॥ १५१ ॥
 

 
चतुरा चतुरास्यश्रीः पद्मभूः सद्म सम्पदाम् ।

परमेष्टः परमेष्ठी वेदगर्भसगर्भभाः ॥ १५२ ॥
 

 
शतानन्दकृतानन्दद्रोहिणो द्रुहिणाकृतिः ।

सुरज्येष्ठः सतां ज्येष्ठो नाभिभूर्नाभिभूतये ॥ १५३ ॥

 
श्रीमानिन्द्र इवोन्निद्रः कश्चिद् दुश्चवनोपमः ।
 

महामहाः सहस्राक्षः समन्युः शतमन्युवत् ॥ १५४ ॥

 
वर्यः पर्यज्ञवत्पूर्वः पूर्वदिक्क्रान्तकान्तभाः ।
 

सुनासीरसुनासीरः साक्षादिव दिवस्पतिः ॥ १५५ ॥
 

 
शक्रवक्रपुरुहूतपूतः सुत्रामधामभाकू ।
 
क् ।
नास्तो वास्तोष्पतिः क्षोणीखण्डमाखण्डलप्रभः ॥ १५६ ॥

 
अनघो मघवा भूपः स पुरन्दरसुन्दरः ।

वासवासवसारौजा बिडौजा दम्भजम्भजित् ॥ १५७ ॥
 

 
ससङ्क्रन्दनसङ्क्रन्दः पाकशासनशासनः ।

प्राचीनबर्हिः प्राचीनवर्गः स्वर्गपतिप्रभः ॥ १५८ ॥
श्रा

 
दित्य नित्यसविता कविता क्रूरशूरवत् ।

अंशुमाली महःशाली दिवाकर इवाकरः ॥ १५९ ॥

 
द्वादशात्मा महात्माऽसोसौ त्रयीतनुमनुव्रजन् ।

जगच्चक्षुःसट्टदृक्षश्री रहर्पतिमहस्ततिः ॥ १६० ॥
 

 
६ का० क०
 
४१