This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
॥ १४३ ॥
 
कालिन्दीकर्षणोत्कर्षसोद्रेकस्त्वेककुण्डलः
लोलां नीलाम्बरो भद्रबलभद्रो हली वली ।
कुशली मुशली तालध्वजोत्तालो चलाइलः ॥ १४४ ॥
ततो लम्बः प्रलम्वघ्नः चमापालः कामपालवत् ।
अनन्तानन्तसङ्ग्रामो रामकामः सरामवत् ॥ १४५ ॥
सङ्कल्पजन्मकल्पनीविषमो विषमायुधः ।
 
चञ्चत्पञ्चशरः पुष्पपुष्पास्त्रो घस्मरः स्मरः ॥ १४६ ॥
प्रद्युम्नद्युम्नकन्दर्पकन्दसहर्पदर्पकाः ।
 
स्तबकः ३ ]
 
मनो मनोभवो भव्यवदनो मदनोपमः ॥ १४७ ॥
पोनमीनध्वजः कामकामना मारसारता ।
शृङ्गारयोनिः शृङ्गारस्तम्बशम्बरसूदनः ॥ १४८ ॥
अनङ्गवङ्गसङ्गत्या मधुमित्रपवित्रभाः ।
 
अथ मन्मथवद्दूनप्रसूनशरभासुरः ॥ १४९ ॥
प्रजा प्रजापतिर्धर्ता जगत्कर्ता विधिविधिः ।
 
ब्रह्म सब्रह्मचारित्वं पितामहमहा महान् ॥ १५० ॥
स्रष्टा स्पष्टास्फुरन्मेधा वेधाः कमलभूरभूत् ।
 
स्वयम्भूमिः स्वयम्भूवद्धाता त्राता जगत्रयीम् ॥ १५१ ॥
 
चतुरा चतुरास्यश्रीः पद्मभूः सद्म सम्पदाम् ।
परमेष्टः परमेष्ठी वेदगर्भसगर्भभाः ॥ १५२ ॥
 
शतानन्दकृतानन्दद्रोहिणो द्रुहिणाकृतिः ।
सुरज्येष्ठः सतां ज्येष्ठो नाभिभूर्नाभिभूतये ॥ १५३ ॥
श्रीमानिन्द्र इवोन्निद्रः कश्चिद् दुश्चवनोपमः ।
 
महामहाः सहस्राक्षः समन्युः शतमन्युवत् ॥ १५४ ॥
वर्यः पर्यज्ञवत्पूर्वः पूर्वदिक्क्रान्तकान्तभाः ।
 
सुनासीरसुनासीरः साक्षादिव दिवस्पतिः ॥ १५५ ॥
 
शक्रवक्रपुरुहूतपूतः सुत्रामधामभाकू ।
 
नास्तो वास्तोष्पतिः क्षोणीखण्डमाखण्डलप्रभः ॥ १५६ ॥
अनघो मघवा भूपः स पुरन्दरसुन्दरः ।
वासवासवसारौजा बिडौजा दम्भजम्भजित् ॥ १५७ ॥
 
ससङ्क्रन्दनसकन्दः पाकशासनशासनः ।
प्राचीनबर्हिः प्राचीनवर्गः स्वर्गपतिप्रभः ॥ १५८ ॥
श्रादित्य नित्यसविता कविता क्रूरशूरवत् ।
अंशुमाली महःशाली दिवाकर इवाकरः ॥ १५९ ॥
द्वादशात्मा महात्माऽसो त्रयीतनुमनुव्रजन् ।
जगच्चक्षुःसट्टक्षश्री रहर्पतिमहस्ततिः ॥ १६० ॥
 
६ का० क०
 
४१