This page has been fully proofread once and needs a second look.

४०
 
-
 
अमरचन्द्रयतिकृता-
मृत्युं मृत्यञ्जयस्फूर्तिर मातष्टमूर्तिरमूर्तिमान् ।

भूतप्रभुः प्रभूतश्रीर्विष्टपः शिपिविष्टवत् ॥ १२६ ॥

 
गौरीगौरीशकालीशशाली चण्डीशचण्डिमा ।
 
[ प्रतानः २-

दुर्गा दुर्गाणि रुद्राणी वाणी शर्वाणिपाणिना ॥ १२७ ॥

 
वात्या कात्यायिनी सर्वमङ्गला सर्वमङ्गला ।
 

नवानीता भवानी सापर्णा वर्णा शिवाऽशिवा ॥ १२८ ॥

 
रणे गणेशविघ्नेशनिघ्ने हेरम्बडम्बराः ।
 

परः परशुपाणिश्रीः सनायकविनायकः ॥ १२९ ॥

 
स्तम्बो लम्बोदरो दन्तैकदन्तेभास्यलास्यवत् ।

दूषको मूषकरथो महासेनमहा महान् ॥ १३० ॥

 
स्वामी कामी कृतास्कन्दः स्कन्दषराण्मुखसंमुखाः ।

महातेजोमहातेजा दत्तार्तिः कार्तिकेयवत् ॥ १३१ ॥

 
कुमारसारसेनानी: सेना गाङ्गेयगेयता ।

सब्रह्मचारी सब्रह्म यमाहुर्बाहुलेयवत् ॥ १३२ ॥

 
शाखा विशाखा क्रौञ्चारिसञ्चारिशरभूशराः ।

तारका तारकारातिर्नादद्वादशलोचनः ॥ १३३ ॥

 
विश्वरूपस्वरूपश्रीः क्रतुपुपूरुषपौरुषः ।

दामोदरवदुद्दामो धरणीधरदुर्धरः ॥ १३४ ॥

 
श्रीवत्सवदतुच्छश्रीः स त्रिविक्रमविक्रमः ।

सेवासु वासुदेवाभः स हृषीकेशपेशलः ॥ १३५ ॥

 
विष्वक्सेन विष्वक्सेनच्छुझछद्मना पद्मनाभवत् ।

विष्णुवर्त्तिष्णुवैकुण्ठ कुण्ठलोकेशकेशवाः ॥ १३६ ॥
छि

 
द्वि
ट् मुण्डपुण्डरीकाक्षो भारान्नारायणप्रभुः ।

स्फीतां पीताम्बरो मञ्जुर्मञ्जुकेशाच्युताच्युताः ॥ १३७ ॥

 
श्रीवत्साङ्कशशाङ्कश्रीर्जनार्दन इवाऽर्दनः ।
 

सदा गदाधरः शाली वनमाली हरिर्हरिः ॥ १३८ ॥
श्रा

 
शादाशार्ह वववावद्बाणः पुराणपुरुषक्रमः ।

इन्द्रोपेन्द्रकृष्णकृष्णपुरुषोत्तम पौरुत्राःषाः ॥ १३९ ॥

 
वृषा वृषाकपिः सेतुस्तार्क्ष्यकेतुरजोऽग्रजः ।

नयज्ञयज्ञपुरुषविक्रमोपमविक्रमः ॥ १४० ॥
विश्व

 
विष्ट
रश्रवसाविष्टो विश्वं विश्वम्भरः प्रभुः ।
मनाकू

मनाक्
सनातनः शौरिर्गौरि गोविन्द विन्दति ॥ १४१ ॥

 
द्वीपश्रीपतिदैत्यारिशैत्या कुन्दमुकुन्दवत् ।

अगाधमाधवः पद्म पद्मेशयवदाशयः ॥ १४२ ॥

 
बलदेवबलो देवः सीरभृद्धीरविक्रमः ।