This page has not been fully proofread.

४०
 
-
 
अमरचन्द्रयतिकृता-
मृत्युं मृत्यञ्जयस्फूर्तिर मातरमूर्तिमान् ।
भूतप्रभुः प्रभूतश्रीविष्टपः शिपिविष्टवत् ॥ १२६ ॥
गौरीगौरीशकालीशशाली चण्डीशचण्डिमा ।
 
[ प्रतानः २-
दुर्गा दुर्गाणि रुद्राणी वाणी शर्वाणिपाणिना ॥ १२७ ॥
वात्या कात्यायिनी सर्वमङ्गला सर्वमङ्गला ।
 
नवानीता भवानी साडपर्णा वर्णा शिवाऽशिवा ॥ १२८ ॥
रणे गणेशविघ्नेशनिघ्ने हेरम्बडम्बराः ।
 
परः परशुपाणिश्रीः सनायकविनायकः ॥ १२९ ॥
स्तम्बो लम्बोदरो दन्तैकदन्तेभास्यलास्यवत् ।
दूषको मूषकरथो महासेनमहा महान् ॥ १३० ॥
स्वामी कामी कृतास्कन्दः स्कन्दषरामुखसंमुखाः ।
महातेजोमहातेजा दत्तार्तिः कार्तिकेयवत् ॥ १३१ ॥
कुमारसारसेनानी: सेना गाङ्गेयगेयता ।
सब्रह्मचारी सब्रह्म यमाहुर्बाहुलेयवत् ॥ १३२ ॥
शाखा विशाखा क्रौञ्चारिसञ्चारिशरभूशराः ।
तारका तारकारातिर्नादद्वादशलोचनः ॥ १३३ ॥
विश्वरूपस्वरूपश्रीः ऋतुपुरुषपौरुषः ।
दामोदरवदुद्दामो धरणीधरदुर्धरः ॥ १३४ ॥
श्रीवत्सवदतुच्छश्रीः स त्रिविक्रमविक्रमः ।
सेवासु वासुदेवाभः स हृषीकेशपेशलः ॥ १३५ ॥
विष्वक्सेन विष्वक्सेनच्छुझना पद्मनाभवत् ।
विष्णुवतिष्णुवैकुण्ठ कुण्ठलोकेशकेशवाः ॥ १३६ ॥
छिट् मुण्डपुण्डरीकाक्षो भारान्नारायणप्रभुः ।
स्फीतां पीताम्बरो मञ्जुर्मञ्जुकेशाच्युताच्युताः ॥ १३७ ॥
श्रीवत्साङ्कशशाङ्कश्रीर्जनार्दन इवाऽर्दनः ।
 
सदा गदाधरः शाली वनमाली हरिहरिः ॥ १३८ ॥
श्राशादाशार्ह वववाणः पुराणपुरुषक्रमः ।
इन्द्रोपेन्द्रकृष्णकृष्णपुरुषोत्तम पौरुत्राः ॥ १३९ ॥
वृषा वृषाकपिः सेतुस्तार्क्ष्यकेतुरजोऽग्रजः ।
नयज्ञयज्ञपुरुषविक्रमोपमविक्रमः ॥ १४० ॥
विश्वरश्रवसाविष्टो विश्वं विश्वम्भरः प्रभुः ।
मनाकू सनातनः शौरिगौरि गोविन्द विन्दति ॥ १४१ ॥
द्वीपश्रीपतिदैत्यारिशैत्या कुन्दमुकुन्दवत् ।
अगाधमाधवः पद्म पद्मेशयवदाशयः ॥ १४२ ॥
बलदेवबलो देवः सीरभृद्धीरविक्रमः ।