This page has not been fully proofread.

३८
 
अमरचन्द्रयतिकृता-
अरुणारुण हक्कोणशोणपाटलपाटलाः ।
पक्काम्रताम्रमाजिटवरिष्ठौ रोहिरोहितः ।
उद्रिचरक्तलोहितलौहितादभ्रवभ्रवः ॥ १२ ॥
कडारस्फारहारिद्रहारिरुकभद्रकद्रवः ।
चभ्रुवभ्रवङ्गपिङ्गौ भृशं पिशङ्गमङ्गकम् ॥ ९३ ॥
कपिकपिशकपिलहरिहरितपिञ्जरपुञ्ज पिङ्गलकलभाः ।
उन्मीलन्नीलश्रीः परितो हरितो निकामतः श्यामाः ॥ १४ ॥
 
कृष्णकृष्णतालकालमेचकिकण्ठमेचकाः ।
 
श्यामाः श्यामलमसिचदसितः शितिरुकुस्थितिः ॥ १५ ॥
सारङ्गरङ्गदङ्गश्रीः शवलप्रबलप्रभः ।
 
प्रसरद्धूसरो धूम्रधूमलो धूमकम्ररुक् ॥ ९६ ॥
पुरः कर्बुर किमर किरणः कलचित्रलः ।
कपोतकान्ति कल्माषमयूखौ चित्रचित्ररुक् ॥ ९७ ॥
निर्वर्याभ्यर्ण सन्नद्धासन्नसन्निधिसन्धयः ।
सदेशपेशलश्रीमत्ससीमविकटान्तिकाः ॥ ९८ ॥
सन्निधानगुणाधानसन्निकर्षप्रकर्षता ।
अभ्यग्रमभ्यग्रहणमुपकराठविकुण्ठता ॥ ९९ ॥
अभ्यासमभ्यासमता निकटप्रकटस्थितिः ।
उपान्तकान्तसम्भ्रान्त परिक्रीडत्सनीडता ॥ १०० ॥
सवेशसन्निवेशश्रीः सविधो विविधोदयः ।
शश्वत् पार्श्वे सन्निकृष्टोत्कृष्टसमीपदीपताः ॥ १०१ ॥
समर्यादस्वमर्यादो हिताव्यवहिताशयः ।
श्रपदान्तपदान्तश्रीरनन्तरपरस्परः ॥ १०२ ॥
संसक्तव्यक्तो नेदिष्ठदिष्टोऽथ दूरपूरतः ।
विप्रकृष्टः प्रकृष्टश्च दवीयः पदवी यथा ॥ १०३ ॥
दविष्ठविनिविष्टोऽथ धर्मकर्मणि शर्मभाक्
सतत्त्वसत्व सहजसहचारीति नीतिमान् ॥ १०४ ॥
रूपस्वरूपस्वभावभावसंसिद्धिसिद्धयः ।
निसर्गसर्गप्रकृतिकृतिनो लक्षणक्षणाः ॥ १०५ ॥
शीलानश्लीलशीलोऽथ स्वस्थावस्थादशावशात् ।
रतिस्थितिरथो स्नेहासन्देहप्रीतिरीतितः ॥ १०६ ॥
प्रेमस्थेमातिदाक्षिण्यदाक्षाऽनुकूलमूलतः
 

संभ्रमभ्रमसम्पर्कात् तर्कनिःशङ्कसङ्कराः ॥ १०७ ॥
श्रवधाननिधानश्रीः समाधानविधानतः ।
प्रणिधानसुधाघानसमाधिर्व्याधिबाधिनी ॥ १०८ ॥ -
 
[ प्रतानः २-