This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
स्फुरन्मदं समुद्रयैः प्रकरेण प्रियङ्करम् ।

ततमानं वितानेन निकुरम्बसडम्बरम् ॥ ७५ ॥

 
निकरेण प्रीतिकरं निवहप्रवहत्प्रभम् ।
 

निकायेन सुकायश्रीविसरप्रसरद्रसम् ॥ ७६ ॥

 
यूथेन ग्रथितं जालजटालं पूगसङ्गतम् ।

सन्दोहसप्ररोहश्रि समुदायमदाश्रितम् ॥ ७७ ॥

 
समूहसुमहदुद्व्यूह महितं वारधारकम् ।

समाजराजितं चक्राऽञ्चितमुत्करमुत्करैः ॥ ७८ ॥

 
चक्रवालविशालश्रीसङ्घातघटितोदयम् ।

धोरणीधारणं श्रेणीशरणं कलमालिभिः ॥ ७९ ॥

 
ततिभिर्विततं मालामालितावलिशालितम् ।

विशालशालितं कीर्ण विस्तीर्णं भूरि पूरितम् ॥ ८० ॥

 
प्रभूतभूतं प्रचुरप्रचारं कलपुष्कलम् ।

भूयिष्ठपुष्टमुद्भ्रान्तादभ्रं बहुलतावहम् ॥ ८१ ॥

 
चारुप्रचारहारिस्फारितरुचिररुचिबन्धुराबन्धाः ।

शोभनशोभं सुषमसममधुरधुरोत्तमतमग्रिमत्ग्राह्याः ॥ २ ॥

 
अर्हप्रबर्हसुन्दरतरसत्तमतमनवप्रवराः ।

पुण्यवरेण्यग्रामग्रामराण्यौ काममभिरामः ॥ ८३ ॥
 

 

 

 
बलाद्वल्गुमनोहरतरसम्यप्ग्रम्यमञ्जुरुचिपुञ्जाः

दृष्टप्रकृष्टकामं वामाग्याग्राः सुखप्रमुखाः ॥ ८४ ॥

 
मञ्जुलोज्ज्वलसोद्रेकप्रवेकानुत्तमक्रमाः

निवेशपेशलप्राग्रजाग्रत्प्राग्रहराग्रहाः ॥ ८५ ॥

 
नम्रकनंम्रं काम्यकामवर्यधुर्यप्रियक्रियाः ।

साधुशुद्धं कान्ततान्तस्पष्टपृष्टवराऽन्तराः ॥ ८६ ॥

 
मुख्यसंख्यरुच्यरुचि सम्यक्सौम्यस्फुरत्पराः ।

हृद्यविद्योतिसौभाग्यभाग्यमाधुर्यधुर्यकाः ॥ ८७ ॥

 
प्रधानसन्धानज्येष्ठश्रेष्ठौ मनोरमः क्रमः ।

परार्ध्यं परर्द्धिर्जात्यजातोऽनुत्तरसन्तरत् ॥ ८
८ ॥
 
सरलाग्रेसरोवर्गाप्ग्रणीरन्योन्यधन्यभाः ।

अकनीयः कमनीयः पुरोगतपुरोगकाः ॥ ८९ ॥

 
अथ घेश्वेतादिवर्णाः-
-
 
धवलप्रबलो लक्ष्वलक्षो गौरगौरवः ।

सितस्मितशुभादभ्रकेतकश्वेतकान्तयः ॥ ९० ॥

 
पलाण्डुपाण्डुरहरहरियौ गर्जदर्जुनः ।

दन्तस्तावदाढीती बिसविशदः शुक्लांशुशुक्लताः ॥ ९१॥ .
 
स्तबक: ३ ]
 
३७