This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
स्फुरन्मदं समुद्रयैः प्रकरेण प्रियङ्करम् ।
ततमानं वितानेन निकुरम्बसडम्बरम् ॥ ७५ ॥
निकरेण प्रीतिकरं निवहप्रवहत्प्रभम् ।
 
निकायेन सुकायश्रीविसरप्रसरसम् ॥ ७६ ॥
यूथेन ग्रथितं जालजटालं पूगसङ्गतम् ।
सन्दोहसप्ररोहश्रि समुदायमदाश्रितम् ॥ ७७ ॥
समूहसुमहदुव्यूह महितं वारधारकम् ।
समाजराजितं चक्राऽञ्चितमुत्करमुत्करैः ॥ ७८ ॥
चक्रवालविशालश्रीसङ्घातघटितोदयम् ।
धोरणीधारणं श्रेणीशरणं कलमालिभिः ॥ ७९ ॥
ततिभिर्विततं मालामालितावलिशालितम् ।
विशालशालितं कीर्ण विस्तीर्ण भूरि पूरितम् ॥ ८० ॥
प्रभूतभूतं प्रचुरप्रचारं कलपुष्कलम् ।
भूयिष्ठपुष्टमुद्भ्रान्ताद बहुलतावहम् ॥ ८१ ॥
चारुप्रचारहारिस्फारितरुचिररुचिबन्धुराबन्धाः ।
शोभनशोभं सुषमसममधुरधुरोत्तमतमग्रिमत्राह्याः ॥ २ ॥
अर्हप्रबर्हसुन्दरतरसत्तमतमनवप्रवराः ।
पुण्यवरेण्यग्रामग्रामरायौ काममभिरामः ॥ ८३ ॥
 

 

 
बलाइल्गुमनोहरतरसम्यप्रम्यमञ्जुरुचिपुञ्जाः
दृष्टप्रकृष्टकामं वामाग्याग्राः सुखप्रमुखाः ॥ ८४ ॥
मञ्जुलोज्ज्वलसोद्रेकप्रवेकानुत्तमक्रमाः
निवेशपेशलप्राग्रजाग्रत्प्राग्रहराग्रहाः ॥ ८५ ॥
नम्रकनं काम्यकामवर्यधुर्यप्रियक्रियाः ।
साधुशुद्धं कान्ततान्तस्पष्टपृष्टवराऽन्तराः ॥ ८६ ॥
मुख्यसंख्यरुच्यरुचि सम्यक्सौम्यस्फुरत्पराः ।
हृद्यविद्योतिसौभाग्यभाग्यमाधुर्यधुर्यकाः ॥ ८७ ॥
प्रधानसन्धानज्येष्ठश्रेष्ठौ मनोरमः क्रमः ।
पराध्यं परद्धिर्जात्यजातोऽनुत्तरसन्तरत् ॥ ८ ॥
सरलाग्रेसरोवर्गाप्रणीरन्योन्यधन्यभाः ।
अकनीयः कमनीयः पुरोगतपुरोगकाः ॥ ८९ ॥
अथ घेतादिवर्णाः-
धवलप्रबलो लक्ष्ववलक्षो गौरगौरवः ।
सितस्मितशुभादभ्रकेतकश्वेतकान्तयः ॥ ९० ॥
पलाण्डुपाण्डुरहरहरियौ गर्जदर्जुनः ।
दन्तस्वदाढी बिसविशदः शुक्लांशुशुक्लताः ॥ ९१॥ .
 
स्तबक: ३ ]
 
३७