This page has been fully proofread once and needs a second look.

पूर्वादेर्गिरयोऽस्ताद्रावस्तात्प्रत्यङ्मुखान्नगाः ।
हिमाद्रावुद्ग्रहिमेभ्योऽद्रिपोऽद्रिभ्योऽधिपास्तथा ॥ ६० ॥
 
मेनकायाः प्रियसमाः पार्वतीभ्यो गुरुः पुनः ।
मलये दक्षिणाच्छैलाः कैलासे स्फटिकान्नगाः ॥ ६१ ॥
 
मेरौ स्वांगभ्यः स्वर्गेभ्यः सुवर्णेभ्योऽपि भूधराः ।
सूर्येभ्यः कान्ते सूर्येभ्योऽग्निभ्यो रत्नोपलादयः ॥ ६२ ॥
 
चन्द्रेभ्यः कान्ते चन्द्रेभ्यो मणयो दृषदोऽपि च ।
अब्धौ नदीभ्यो वारिभ्यः स्रोतसो यादसोऽधिपाः ॥ ६३ ॥
 
अद्भ्यो निध्याशयौ राशिर्धिर्दुग्धादेः परेऽर्णवाः ।
गङ्गायां सिद्धात् स्वःस्वर्गिनभोभ्यो निम्नगाः समाः ॥ ६४ ॥
 
<error>जन्होः </error><fix>जह्नोः</fix> पुत्र्यः कालिन्द्यां कलिन्दादर्कादितः सुताः ।
कृतान्तेभ्यो भगिन्योऽपि रेवायां सकलात्तथा ॥ ६५ ॥
 
चन्द्रेभ्यस्तनयाः ताप्यां तपनेभ्यस्तनूद्भवाः ।
अब्जे जलेभ्यः सरसः पङ्काज्जन्मजरुड्रुहाः ॥ ६६ ॥
 
भृङ्गे पुष्पेभ्यो मध्वादेर्लिहः षट्शब्दतोऽङ्घ्रयः ।
सर्पें वातेभ्योऽशनाद्या द्विशब्दाद्रसनासमाः ॥ ६७ ॥
 
दृग्भ्यः श्रुतयो विषेभ्यः फणेभ्योऽपि धरादयः ।
मयूरे नीलेभ्यः कण्ठा भुजङ्गेभ्यो भुगादयः ॥ ६८ ॥
 
जलदेभ्यः सुहृत्तुल्या वृक्षे क्ष्माभ्यो जरुड्रुहाः ।
जलवाहे जलेभ्यस्तु वाहो मुग् दो धरादयः ॥ ६९ ॥
 
एवं परावृत्तिसहान् शब्दानौचित्यतो बुधः ।
समासव्याससिद्ध्यर्थं परावृत्य प्रयोजयेत् ॥ ७० ॥
 
स्तबकोऽयं निगद सिद्धः ।
 
इति श्रीजिनदत्त सूरि० शब्दसिद्धिप्रताने द्वितीये यौगिकनाममालास्तबको द्वितीयः ।
----------------------------
अथाऽनुप्रासोपायमाह--
 
अनुप्रासस्य सिद्ध्यर्थं शब्दान् साधारणान् ब्रुवे ।
मण्डितं मण्डलैः पूरैः पूरितं सङ्कुलं कुलैः ॥ ७१ ॥
 
राजितं राजिभिर्युक्तं पङ्क्तिभिः पटलैः पटुम् ।
निचितं निचयैरोधैर्मोघं सञ्चयसञ्चितम् ॥ ७२ ॥
पुञ्जेन मञ्जुजातेन सुजातं वृन्दसुन्दरम् ।
कदम्बचुम्बितं सार्धकृतार्थं सगुणं गुणैः ॥ ७३ ॥
 
राशिभिर्भासितं व्रातैः क्रान्तं संहतिसंहतम् ।
सोमं स्तौमि ससङ्घट्टं सङ्घैः प्रीतप्रजं वैः ॥ ७४ ॥