This page has not been fully proofread.

३६
 
अमरचन्द्रयतिकृता-
पूर्वादेगिरयोऽस्ताद्वावस्तात्प्रत्यङ्मुखान्नगाः ।
हिमाद्राबुद्ग्रहिमेभ्योऽद्विपोऽद्विभ्योऽधिपास्तथा ॥ ६० ॥
मेनकायाः प्रियसमाः पार्वतीभ्यो गुरुः पुनः ।
मलये दक्षिणाच्छैलाः कैलासे स्फटिकान्नगाः ॥ ६१ ॥
मेरौ स्वांगभ्यः स्वर्गेभ्यः सुवर्णेभ्योऽपि भूधराः ।
सूर्येभ्यः कान्ते सूर्येभ्योऽग्निभ्यो रत्नोपलादयः ॥ ६२ ॥
 
.. चन्द्रेभ्यः कान्ते चन्द्रेभ्यो मणयो द्वषदोऽपि च ।
 
अब्धौ नदीभ्यो वारिभ्यः स्रोतसो यादसोऽधिपाः ॥ ६३
श्रद्भ्यो निध्याशयौ राशिर्धिर्दुग्धादेः परेऽर्णवाः ।
 
[ प्रतानः २-
गङ्गायां सिद्धात् स्वःस्वर्गिनभोभ्यो निम्नगाः समाः ॥ ६४ ॥
जन्होः पुत्र्यः कालिन्द्यां कलिन्दादर्कादितः सुताः ।
कृतान्तेभ्यो भगिन्योऽपि रेवायां सकलात्तथा ॥ ६५ ॥
चन्द्रेभ्यस्तनयाः ताप्यां तपनेभ्यस्तनूद्भवाः ।
अब्जे जलेभ्यः सरसः पङ्काज्जन्मजरुडूहाः ॥ ६६ ॥
भृङ्गे पुष्पेभ्यो मध्वादेर्लिहः षट्शब्दतोऽप्रयः ।
सपें वातेभ्योऽशनाद्या द्विशब्दादूसनासमाः ॥ ६७ ॥
द्वग्भ्यः श्रुतयो विषेभ्यः फणेभ्योऽपि धरादयः ।
मयूरे नीलेभ्यः कण्ठा भुजङ्गेभ्यो भुगादयः ॥ ६८ ॥
जलदेभ्यः सुहृत्तुल्या वृक्षे चमाभ्यो जरुडुहाः ।
जलवाहे जलेभ्यस्तु वाहो मुग् दो धरादयः ॥ ६९ ॥
एवं परावृत्तिसहान् शब्दानौचित्यतो बुधः ।
समासव्याससिद्ध्यर्थं परावृत्य प्रयोजयेत् ॥ ७० ॥
स्तबकोऽयं निगद सिद्धः
 
इति श्रीजिनदत्त सूरि० शब्दसिद्धिप्रताने द्वितीये यौगिकनाममालास्तब को द्वितीयः ।
 
1
 
अथाऽनुप्रासोपायमाह -
 
-
 
अनुप्रासस्य सिद्ध्यर्थं शब्दान् साधारणान् ब्रुवे ।
 
मण्डितं मण्डलैः पूरैः पूरितं सङ्कुलं कुलैः ॥ ७१ ॥
 
राजितं सजिभिर्युक्तं पक्तिभिः पटलैः पटुम् ।
निचितं निचयैरोषैर्मोघं सञ्चयसञ्चितम् ॥ ७२ ॥
पुज्जेन मञ्जु जातेन सुजातं वृन्दसुन्दरम् ।
कदम्ब सुम्बितं सार्थकृतार्थ सगुणं गुणैः ॥ ७३.॥
राशिभिर्भाखिलं बालैः क्रान्तं संहतिसंहतम् ।
सोमं स्यौगि सवैः वैः ॥ ७४॥