This page has been fully proofread once and needs a second look.

स्तबकः १ ] काव्यकल्पलतावृत्तिः ।
 
गुणवाची शब्द इतरशब्दान्तो नञ्पूर्वश्च विरोधिनमर्थमभिधत्ते । यथा- -सितेतरो-

ऽसितश्च कृष्णः, एवं कृशेतरोऽकृशश्च स्थूल इत्यादि ।
 

 
व्युत्पश्त्त्यन्तरमाह-
-
 

 
जलदादिषु पूर्वपदे सरोजमुख्येषु चोत्तरपदेषु ।

सुरपतिसमेषु चोभयपदेषु पर्यायपरिवृत्तिः ॥ १६ ॥
 

 
जलदादिषु शव्ब्देषु पूर्वस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा जलदस्तोयदो नीरदः ।

आदिग्रहणात् जलधिस्तोयधिर्नीरधिरित्यादि । सरोजमुख्येषु शब्देषु उत्तरस्मिन्नेव पदे

पर्यायपरिवर्तनम् । यथा सरोजं सरोरुहम् । मुख्यशब्दादूद् वडवाग्निदंर्वडवानलो वडवा-
वन्हि

वह्नि
रित्यादि । सरपतिसदृशेषु पूर्वोत्तरपदेषु पर्यायपरिवर्तनम् । यथा - -सुरपतिः देवराजः

त्रिदशेश्वरः । समशब्दाद्भूपतिर्महीपतिः भूभुक् महीमुभुगित्यादि ।
 

 
इति परिवृत्तिसहा ये योगात्ते यौगिकाः शब्दाः ।
 

परिवृत्त्यसहा ये ते मिश्रा गीर्वाणतुल्यास्तु ॥ १७ ॥

 
इत्येवं पूर्वोत्तरत्रोभयत्र च पदे परिवृत्तिः पर्याय परिवर्तनं सहन्ते क्षमन्ते परिवृत्ति-

सहा ये ते जलदादयो योगादन्वयाद्भवेयुरिति यौगिकाः । गीर्वाणादयः शब्दाः पुनः

पूर्वोत्तरत्रोभयन्त्र पदे पर्यायपरिवृत्तिमसहमाना मिश्राः । को भावः ? योगयुक्ताः रूढि-

मन्तश्च । तुल्यग्रहणात् कृतान्तदशरथप्रभृतयः ।
 

 
इति श्रीजिन० शब्दसिद्धिप्रताने द्वितोतीये रूढयौगिक मिश्राख्यः प्रथमस्तबकः ॥
 

 
अथ योगार्हनामानि ।
 

 
भवन्ति यौगिकाः शब्दाः समासव्यासहेतवः ।

तद्योगार्हाणि नामानि कत्यपि प्रतिपादये ॥ १८ ॥

 
उद्देशवचनं पूर्वं सप्तम्यन्तमिहोदितम् ।

पञ्चम्यन्तं पूर्वपदं प्रथमान्तं पुरः पदम् ॥ १६ ॥
९ ॥
 
शब्दः स एक एवाऽत्र स्यादेकवचनात् कृतात् ।

बहवो बहुवचनान्सुमुख्याद्यादेस्तदर्थकाः ॥ २० ॥

 
स्वर्गे सुरेभ्यो गेहानि देवे द्युभ्यः सदादयः ।

स्वाहा स्वधाभ्याञ्च सुधा क्रतुभ्योऽपि भुगादयः ॥ २१ ॥

 
दैत्येभ्योऽरयोऽर्के सहस्त्रात् खरप्रभृतेरपि ।

उष्णेभ्यश्रांचांशवश्चक्राऽब्जदिनेभ्योऽपि बान्धवः ॥ २२ ॥

 
ध्वान्तेभ्यो रिपवो गोधुद्युपद्मिनीभ्यो ग्रहादिनाः ।

प्रभाविभाभासोदिवादिनाहर्दिवसात् करः ॥ २३ ॥

 
नभोदिनेभ्यो रत्नानि गगनेभ्योऽध्वजाऽध्वगाः ।

सप्तादेरश्वा अरुणेऽर्केभ्यः सारथयस्तथा ॥. २४.
 

 
५ का० ६०