This page has not been fully proofread.

स्तबकः १ ] काव्यकल्पलतावृत्तिः ।
 
गुणवाची शब्द इतरशब्दान्तो नपूर्वश्च विरोधिनमर्थमभिधत्ते । यथा- सितेतरो-
ऽसितश्च कृष्णः, एवं कृशेतरोऽकृशश्च स्थूल इत्यादि ।
 
व्युत्पश्यन्तरमाह-
—-
 
जलदादिषु पूर्वपदे सरोजमुख्येषु चोत्तरपदेषु ।
सुरपतिसमेषु चोभयपदेषु पर्यायपरिवृत्तिः ॥ १६ ॥
 
जलदादिषु शव्देषु पूर्वस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा जलदस्तोयदो नीरदः ।
आदिग्रहणात् जलधिस्तोयधिनरधिरित्यादि । सरोजमुख्येषु शब्देषु उत्तरस्मिन्नेव पदे
पर्यायपरिवर्तनम् । यथा सरोजं सरोरुहम् । मुख्यशब्दादू वडवाग्निदंडवानलो वडवा-
वन्हिरित्यादि । सरपतिसदृशेषु पूर्वोत्तरपदेषु पर्यायपरिवर्तनम् । यथा - सुरपतिः देवराजः
त्रिदशेश्वरः । समशब्दापतिर्महीपतिः भूभुक् महीमुगित्यादि ।
 
इति परिवृत्तिसहा ये योगात्ते यौगिकाः शब्दाः ।
 
परिवृत्त्यसहा ये ते मिश्रा गीर्वाणतुल्यास्तु ॥ १७ ॥
इत्येवं पूर्वोत्तरत्रोभयत्र च पदे परिवृत्तिः पर्याय परिवर्तनं सहन्ते क्षमन्ते परिवृत्ति-
सहा ये ते जलदादयो योगादन्वयाद्भवेयुरिति यौगिकाः । गीर्वाणादयः शब्दाः पुनः
पूर्वोत्तरत्रोभयन्त्र पदे पर्यायपरिवृत्तिमसहमाना मिश्राः । को भावः ? योगयुक्ताः रूढि-
मन्तश्च । तुल्यग्रहणात् कृतान्तदशरथप्रभृतयः ।
 
इति श्रीजिन० शब्दसिद्धिप्रताने द्वितोये रूढयौगिक मिश्राख्यः प्रथमस्तबकः ॥
 
अथ योगाईनामानि ।
 
भवन्ति यौगिकाः शब्दाः समासव्यासहेतवः ।
तद्योगार्हाणि नामानि कत्यपि प्रतिपादये ॥ १८ ॥
उद्देशवचनं पूर्वं सप्तम्यन्तमिहोदितम् ।
पञ्चम्यन्तं पूर्वपदं प्रथमान्तं पुरः पदम् ॥ १६ ॥
शब्दः स एक एवाऽत्र स्यादेकवचनात् कृतात् ।
बहवो बहुवचनान्सुख्याद्यादेस्तदर्थकाः ॥ २० ॥
स्वर्गे सुरेभ्यो गेहानि देवे द्युभ्यः सदादयः ।
स्वाहा स्वधाभ्याञ्च सुधा ऋतुभ्योऽपि भुगादयः ॥ २१ ॥
दैत्येभ्योऽरयोऽर्के सहस्रात् खरप्रभृतेरपि ।
उष्णेभ्यश्रांशवश्चक्राऽब्जदिनेभ्योऽपि बान्धवः ॥ २२ ॥
ध्वान्तेभ्यो रिपवो गोधुपद्मिनीभ्यो ग्रहादिनाः ।
प्रभाविभाभासोदिवादिनाहर्दिवसात् करः ॥ २३ ॥
नभोदिनेभ्यो रत्नानि गगनेभ्योऽध्वजाऽध्वगाः ।
सप्तादेरश्वा अरुणेऽर्केभ्यः सारथयस्तथा ॥. २४.
 
५ का० ६०