This page has not been fully proofread.

३२
 
अमरचन्द्रगतिकृता
 
वध्य इति रूढिः । आदिशब्दात् पुरनिहन्ता पुरकेतुः पुरहा पुरान्तकः पुरजयीति । वध्य
इति वधार्हमात्रेऽपि, तेन कालियदमनः कालियारि: कालियशासनो विष्णुरित्यादयोऽपि
गृह्यन्ते । कविरुढ्येत्येव । तेन कालियदमनादिवत् कालियघातीति न भवति ।
उक्ताः स्वस्वामित्वादयः सम्बन्धभेदाः, ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया
अपि भवन्तीति दर्शयितुमाह -
 
-
 
[ प्रतानः २-
Maide
 
सम्बन्धोऽपि विवक्षात इति पदादेकतोऽपि संयोज्याः ।
श्रौचित्याद्विवुधैः प्राद्दर्शितसम्बन्धिशब्दास्ते ॥ १० ॥
विवक्षानिबन्धनो हि सम्बन्धस्तत एकस्मादपि वृषादेः सम्बन्धिपदात् परे सम्ब
न्धान्तरनिबन्धा वाहनादयः शब्दा यथौचित्यं प्रयुज्यन्ते ।
 
एवदेवाह -
 
-
 
वृषस्य सति वाह्यत्वे शङ्करो वृषवाहनः ।
 
धार्यत्वे तु वृषाङ्कोऽयं स्वत्वे वृषपतिस्तु सः ॥ ११ ॥
धार्यत्वेंऽशोरंशुमाली सत्त्वे तु रविरंशुमान् ।
अहेवंध्यत्वे हि रिपुर्भोज्यस्वे बर्हिगोऽहिभुक् ॥ १२ ॥
 
वाह्यवाहकभावसम्बन्धविवक्षायां यथा वृषवाहनो रुद्र इति भवति तथा धार्यधारक-
भावसम्बन्धविवक्षायां वृषलाञ्छनः, स्वस्वामिभावसम्बन्धविवक्षायां वृषपतिरित्यपि ।
तथा धार्यधारकभावसम्बन्धविवक्षायां यथा अंशुमाली रविरिति भवति तथा स्वस्वामि
भावसम्बन्धविवक्षायाम् ॐशुपतिः अंशुमानित्यपि । तथा वध्यवधकभादसम्बन्धे यथा
अहिरिपुर्मयूरस्तथा भोज्यभोजकभावसम्बन्धे अहिभुगित्यपि भवति ।
सम्बन्धनिबन्धां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तरमाह-
व्यक्तचिन्हाङ्कितो जातिशब्दोऽपि व्यक्तिवाचकः ।
 
यथाऽगस्तिनिवासा दिक दक्षिणाशा प्रकीर्त्यते ॥ १३ ॥
 
·
 
व्यक्तं निःसन्देहं यचिन्हं तेन चिन्हितो जात्यभिप्रायकोऽपि शब्दो व्यक्तेर्वाचको
भवति । व्यक्तेना॑मतां यातीत्यर्थः । यथाऽगस्तेर्मुनिविशेषस्य निवासो यस्यां सा इति
व्यक्तं निस्सन्देहं चिन तेन चिन्हिता दिगिति जातिशब्दो दक्षिणाशाया व्यक्तेरभि
धायी भवति । एवं सप्तर्षिपूता दिगुत्तराशा, अत्रेर्नयनसमुत्थं ज्योतिश्चन्द्र इत्यादयोऽपि ।
व्युत्पश्यन्तरमाह-
शब्दौ त्रिपञ्चसप्तादिवाचकौ विषमायुजौ ।
योजयेत् त्रिनेत्रपञ्चशरसप्तच्छदादिषु ॥ १४ ॥
त्रिपञ्चसप्तादिस्याने विषम- अयुक्शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथा - त्रिनेत्रो
विषमनेत्रोऽयुनेत्रश्च शंभुः, पञ्चशरो विषमशरोऽयुक्शरच कामः, सप्तच्छदो विषमच्छदो-
ज्युक्च्छदश्च सप्तपर्णः ।
 
-
 
व्युत्पत्त्यन्तरमाह-
इतरान्तो नपूर्वो गुणसग्दोऽर्थविरोधनं वक्ति ।
यद्वत् सितेतरोऽसित एवं प्रतिपद्यते कृष्णः ॥ १५ ॥