This page does not need to be proofread.

Repeated page
 
स्तबकः १ ]
 

 
काव्यकल्पलतावृत्तिः ।
 

 
३१
 

 
शिवस्तस्य हि गौरी कलत्रमिति रूढ़ि: । रुकशब्दात्समानार्थाः पत्यादिशब्दा गृह्यन्ते ।

कविरूदयेत्येव । न हि यथा गौरीवरः शिवः तथा गङ्गावर इति ।

सख्युः सम्बन्धे यथा-

सख्युः सखिप्रभृतयः
 

 
सखिवाचकाच्छदारपरे सखिसमानार्थास्तद्वतां सखिवतां नामाहुः । यथा-

श्रीकण्ठस्य सखा श्रीकण्ठसखः कुवेरः मधुसखः कामः । प्रभृतिग्रहणात्मुहृदादयो

गृह्यन्ते । कविरूढयेत्येव । न हि भवति यथा श्रीकण्ठसखो घनदस्तथा घनदसखः

श्रीकण्ठ इति 1
 

 
वाह्यवाहकसम्बन्धे यथा-

वाह्याद्यानासनप्रायाः ।
 

 
3
 

 
वाह्यवाचिन: शब्दात् परे यानादयस्तद्वतां वाह्मवतां वाहयितणां नामाहुः ।

यथा - वृषयान: वृषासनः शंभुः तस्य हि वृषो यानमिति रूढिः । प्रायः शब्दात्

वृषगामी वृषवाहन इत्यादयोऽपि । कविरूढयेत्येव । नहि भवति यथा नरवाहनः

कुबेरः तथा नरगामी नरयान इत्यादि ।
 

 
ज्ञातेयसम्बन्धे यथा -
 

 
ज्ञातेः खसृदुहित्रात्मजाऽग्रजाऽवरजसङ्काशाः ।
 

 
ज्ञातिः स्वजनस्तद्वाचिमः शब्दात्परे स्वस्त्रादयस्तदूतां ज्ञातेयवतां ज्ञातीनां नामा-

हुः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - यमस्वसा

यमुना, हिमवदुहिता गौरी, चन्द्रात्मजो बुधः, गदाग्रज, इन्द्रावरजश्व विष्णुः । यमादयो

हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः । संकाशशब्दात् सोदरादयो गृह्यन्ते ।

यथा कालिन्दीसोदरो यमः । कविरूढयेत्येव । न हि भवति यथा यमुना यमस्वसा

तथा शनिस्वसापि ।
 

 
आश्रयायिभावसम्बन्धे यथा-

श्राश्रयतः सदनाख्याः सद्वासिशयप्रकाराश्च ॥ ८ ॥
 

 
माश्रयवतामाश्रितानां नामाहुः । यथा - धुसदना,
 

 
,
 

 
आश्रयो नियासः तद्वाचिन: शब्दात् परतः सदननामानि तथा सदनादयस्तद्वता-

धुसझानो देवाः । दिवौकसः, दिव-

शब्दोऽकारान्तोऽप्यस्ति - इति । ध्रुवसतयः दिवाश्रयाः सद: चुनिवासिनः धुशया

देवाः । द्यौः स्वर्गः स च तेषामाश्रय इति रूढिः । कविढ्येत्येव । न हि भवति यथा-

समानस्तथा भूमिसझानो मनुष्या इति ।
 

 
वध्यवधक भावसम्बन्धे यथा-
-
 

-
 
·
 

 
वध्याद् भिजिद्धातिद्वेषिध्रुवंसिशासन विपक्षाः ।

अप्यन्तकारिसूदनदर्प च्छिहमनदारिमथनाद्याः ॥ ६ ॥
 

 
वघ्यो वा त्यस्तद्वाचिनः शब्दात परे भिदादयः अन्तकादयोऽपि तद्वतां वधकानां

नामाहुः । यथा - पुरभित पुरजित पुरघाती पुरद्वेषी पुरधुक पुरध्वंसी पुरशासनः पुरविपक्षः

पुरान्तकारी पुरसूदनः पुरदच्छित् पुरदमनः पुरदारो पुरमथनः शिवः, तस्य हि पुरो