This page does not need to be proofread.

३०
 
Repeated page
 
अंमरचन्द्रयतिकृता-

[ प्रतानः २-

योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नामाहुः । यथा आत्मयोनिः आत्मजः

आत्मजनि: आत्मभूः आत्मसम्भवः आत्मरुहः आत्मसुतिर्ब्रह्मा, तस्य हि आत्मा

कारणमिति रूढिः । वक्ष्यमाणस्याद्यशब्दस्याभिसम्बन्धादात्मजन्मादयोऽपि । अणा-

दयस्तु भृगोरपत्यं भार्गवः, दितेरपत्यं दैत्यः, वत्सस्यापत्यं वात्स्यायन इत्यादि ।

अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः । कविरूट्येत्येव । न ह्यात्म-

योनिवदात्मजनक आत्मकारक इति भवेत् ।
 

 
धार्यधारकभावसम्बन्धे यथा-

धार्यात् ध्वजास्त्रपारायङ्कमौलिभृन्मण्डनसमानाः ।

घरभर्तृमालिमत्वर्थशालिशेखरसदृक्षाश्च ॥ ६ ॥

धार्यवाचकात्परे ध्वजादयः शेखरान्ता धारकस्य नामाहुः । यथा - वृषध्वजः

शुलाखः

: पिनाकपाणि: वृपाडु: चन्द्रमौलि : शुलभृत् शशिमण्डनः । समानग्रहणात्सदृ-

शार्थाः । वृषकेतनः शूलायुधः वृपलक्ष्मा चन्द्रशिराः चन्द्रभूषणः चन्द्राभरणादयो

गृह्यन्ते । यथा - गङ्गाधरः विनाकभर्ता पिनाकमाली, पिनाकं मालते धारयतीति कृत-

त्वात्, शूली पिनाकशाली शशिशेखरः । कविरूढ्येत्येव, तेन सत्यपि धार्यधारकसम्बन्धे

न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । न हि भवति वृषध्वजवच्छूल.

ध्वजः शूलास्त्रवत् चन्द्रास्त्रः पिनाकपाणिवदहिपाणिः वृषाङ्कवचन्द्राङ्क: चन्द्रमौलिवद्

गङ्गामौलि: शशिमण्डनवत् चन्द्रमण्डनः गङ्गाधरवच्चन्द्रधरः पिजाकभर्तृवच्चन्द्रभर्ता

पिनाकमालिवत्सर्पमाली शूलिवच्छूलवान् शूलशालिवत् चन्द्रशाली चन्द्रशेखरवद्गङ्गा-

शेखर इति ।
 

 
भोज्यभोजकभावसम्बन्धे यथा-

COURAN
 

 
भोज्याद् भुग्लिट्पाय्यन्धोव्रत पाशाशनप्रमुखाः ।
 

 
भोज्यं भक्ष्यं तद्वाचिन: शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तणां

नामाहुः । यथा – अमृतभुजः अमृतलिहः अमृतपायिनः अमृतान्धसः अमृतव्रता :

अमृतपाः अमृताशाः अमृताशना देवास्तेषां झमृतं भोज्यमिति रूढिः । प्रमुखशब्द-

स्तत्समानार्थ भोजनादिशब्दपरिग्रहाय । कविरूढयेत्येव । न हि यथाऽमृतभुजस्तथा-

ऽमृतवलमा इति भवति ।

पतिकलत्रभावसम्बन्धे यथा-

पत्युः कान्ता दयिता वधूः प्रणयिनी प्रियाऽङ्गना तुल्याः ।

पत्न्याः प्रणयिप्रियवररमणप्राणेश्वरेशसमाः ॥ ७ ॥
 

 
पतिर्वरयिता तद्वाचकाच्छन्दात् परे कान्तादिसदृशाः शब्दास्तद्वतीनां पतिमतीनां

मार्याणां नामाहुः । यथा - शिवकान्ता शिवदयिता शिववधूः शिवप्रणयिनी शिवप्रिया

शिवाङ्गना गौरी, तस्या हि शिवः पतिरिति रूढिः । तुल्यग्रहणाद्रमणीवल्लभाप्रभृतयो

गृह्यन्ते । कविरूढयेत्येव । न हि भवति यथा शिवकान्ता तथा शिवपरिग्रह इति ।

तथा पत्नीवाचकाच्छन्दात्परे प्रणयिप्रमुखाः शब्दास्तद्वतां कलत्रवतां वरयितॄणां नामा-

ऽऽहुः । यथा - गौरीप्रणयो गौरीप्रिय: गौरीवरः गौरीरमण: गौरीप्राणेश्वर: गौरीशः