This page has not been fully proofread.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
३१
 
शिवस्तस्य हि गौरी कलत्रमिति रूढिः । समशब्दात्समानार्थाः पत्यादिशब्दा गृह्यन्ते ।
कविरुदयेत्येव । न हि यथा गौरीवरः शिवः तथा गङ्गावर इति ।
सख्युः सम्बन्धे यथा-
सख्युः सखिप्रभृतयः
 
3
 
सखिवाचकाच्छब्दात्परे सखिसमानार्थास्तद्वतां सखिवत नामाहुः । यथा-
श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः मधुसखः कामः । प्रभृतिग्रहणात्मुहृदादयो
गृह्यन्ते । ऋविरूढयेत्येव । न हि भवति यथा श्रीकण्ठसखो धनदस्तथा घनदसखः
श्रीकण्ठ इति ।
 
वाह्यवाहकसम्बन्धे यथा-
-
 
वाह्याद्यानासनप्रायाः ।
 
वाह्यवाचिनः शब्दात् परे
 
यानाद यस्तद्वतां वाह्यवतां वाहयितणां नामाहुः ।
यथा - वृषयान: वृषासनः शंभुः तस्य हि वृषो यानमिति रूढिः । प्रायः शब्दात्
वृषगामी वृषवाहन इत्यादयोऽपि । कविरूढयेत्येव । नहि भवति यथा नरवाहनः
कुबेरः तथा नरगामी नरयान इत्यादि ।
 
ज्ञातेयसम्बन्धे यथा-
ज्ञातेः खसृदुहित्रात्मजाऽग्रजाऽवरजसङ्काशाः ।
 
ज्ञाति: स्वजनस्तद्वाचिमः शब्दात्परे स्वस्त्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नामा-
हुः । स्वस्त्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - यमस्वसा
यमुना, हिमवद्दुहिता गौरी, चन्द्रात्मजो बुधः, गदाग्रज, इन्द्रावरजश्व विष्णुः । यमादयो
हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः । संकाशशब्दात् सोदरादयो गृह्यन्ते ।
यथा कालिन्दीसोदरो यमः । कविरूट्येत्येव । नहि भवति यथा यमुना यमस्वसा
तथा शनिस्वसापि ।
 
आश्रयाश्रयिभावसम्बन्धे यथा-
श्राश्रयतः सदनाख्याः सद्वासिशयप्रकाराच ॥ ८ ॥
आश्रयो नियासः तदाचिन: शब्दात् परतः सदननामानि तथा सदनादयस्तद्वता-
माश्रयवतामाश्रितानां नामाहुः । यथा - चुसदना, धुसन्झानो देवाः । दिवौकसः, दिव-
शब्दोऽकारान्तोऽप्यस्ति-इति । ध्रुवसतयः दिवाश्रयाः धुसद: चुनिवासिनः शया
देवाः । द्यौः स्वर्गः स च तेषामाश्रय इति रूढिः । कविढयेत्येव । न हि भवति यथा-
समानस्तथा भूमिसझानो मनुष्या इति ।
वध्यवधकभावसम्बन्धे यथा-
वध्याद् भिजिद्धातिद्वेषिध्रुवंसिशासन विपक्षाः ।
अप्यन्तकारिसूदनदर्पच्छिद्दमनदारिमथनाद्याः ॥ 8 ॥
 
वघ्यो घात्यस्तंद्वाचिन: शब्दात परे भिदादयः अन्तकादयोऽपि तद्वतां वधकानां
 
-
 
नामाहुः । यथा - पुरभित पुरजित् पुरवाती पुरद्वेषी पुरश्रुक् पुरध्वंसी पुरशासनः पुरविपक्षः
पुरान्तकारी पुरसूदनः पुरदर्पच्छित् पुरदमनः पुरदारो पुरमथनः शिवः, तस्य हि पुरो