This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः २-
योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नामाहुः । यथा आत्मयोनिः आत्मजः

आत्मजनिः : आत्मभूः आत्मसम्भवः आत्मरुहः आत्मसुतिर्ब्रह्मा, तस्य हि आत्मा

कारणमिति रूढिः । वक्ष्यमाणस्याद्यशब्दस्याभिसम्बन्धादात्मजन्मादयोऽपि । अणा-

दयस्तु भृगोरपत्यं भार्गवः, दितेरपत्यं दैत्यः, वत्सस्यापत्यं वात्स्यायन इत्यादि ।

अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः । कविरूट्ढ्येत्येव ।
न ह्यात्म-
योनिवदात्मजनक आत्मकारक इति भवेत् ।
 
न ह्यात्म-

 
धार्यधारकभावसम्बन्धे यथा--
 
धार्यात् ध्वजास्त्रपाण्यङ्कमौलिभृन्मण्डनसमानाः ।

रभर्तृमालिमत्वर्थशालिशेखरसट्टादृक्षाश्च ॥ ६ ॥
 

 
धार्यवाचकात्परे ध्वजादयः शेखरान्ता धारकस्य नामाहुः । यथा--वृध्वजः

शूलास्त्रः पिनाकपाणिः
वृपाःषाङ्कः चन्द्रमौलिः : शूलभृत् शशिमण्डन:नः । समानग्रहणात्सदृ
-
शार्थाः । वृषकेतन:नः शूलायुधः वृलक्ष्मा चन्द्रशिराः चन्द्रभूषणः चन्द्राभरणादयो

गृह्यन्ते । यथा - --गङ्गाधरः विनाकभर्ता पिनाकमाली, पिनाकं मालते धारयतीति कृत-

त्वात्, शूली पिनाकशाली शशिशेखरः । कविरूट्ढ्येत्येव, तेन सत्यपि धार्यधारकसम्बन्
धे
न सर्वेभ्यो धायेंर्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्या: । न हि भवति वृध्वजवच्छूल.
-
ध्वजः शूलास्त्रवत् चन्द्रास्त्रः पिनाकपाणिवदहिपाणिः वृपाचषाङ्कवच्चन्द्राङ्क:कः चन्द्रमौलिवद्

गङ्गामौलि:लिः शशिमण्डनवत् चन्द्रमण्डनः गङ्गाधरवच्चन्द्रधरः पिजाकभर्तृवच्चन्द्रभर्ता

पिनाकमालिवत्सर्पमाली शूलिवच्छूलवान् शुशूलशालिवत् चन्द्रशाली चन्द्रशेखरद्गङ्गा-

शेखर इति ।
 

 
भोज्यभोजकभावसम्बन्धे यथा -
 
धार्यधारकभावसम्बन्ध यथा-

 
--
 
भोज्याद् भुग्लिट्पाय्यन्धोव्रतपाशाशनप्रमुखाः ।
 
-
 

 
धार्यधारकभावसम्बन्धे यथा--
 
भोज्यं भक्ष्यं तद्वाचिन:नः शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तां
तॄणां
नामाहुः । यथा - --अमृतभुजः अमृतलिहः अमृतपायिन: अमृतान्धसः अमृतवता:
व्रताः
अमृतपा:पाः अमृताशा:शाः अमृताशना देवास्तेषां ह्यमृतं भोज्यमिति रूढिः । प्रमुखशब्द-

स्तत्समानार्थ भोजनादिशब्दपरिग्रहाय । कविरूढयेत्येव । न हि यथाऽमृतभुजस्तथा

ऽमृतवल्माभा इति भवति ।

 
पतिकलत्रभावसम्बन्धे यथा-
-
 
-
 
पत्युः कान्ता दयिता वधूः प्रणयिनी प्रियाऽङ्गना तुल्याः ।

पत्न्याः प्रणयिप्रियवररमणप्राणेश्वरेशसमाः ॥ ७ ॥
 

 
पतिर्वरयिता तवाचकाच्छन्ब्दात् परे का न्तादिसदृशाः शब्दास्तद्वतीनां पतिमतीनां

भार्याणां नामाहुः । यथा - --शिवकान्ता शिवदयिता शिववधुः शिवप्रणयिनी शिवप्रिया

शिवाङ्गना गौरी, तस्या हि शिवः पतिरिति रूढिः । तुल्यग्रहणाद्रमणीवल्लभाप्रभृतयो

गृह्यन्ते । कविरूढ्येत्येव । न हि भवति यथा शिवकान्ता तथा शिवपरिग्रह इति ।

तथा पत्नीवाचकाच्छन्ब्दात्परे प्रणयिप्रमुखाः शब्दास्तद्वतां कलत्रवतां वरयितॄणां नामा-

ऽऽहुः । यथा - --गौरीप्रणयो गौरीप्रियः गौरीवरः गौरीरमण:णः गौरीप्राणेश्वर:रः गौरीश:
 
-
 
शः