This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः २-
योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नामाहुः । यथा आत्मयोनिः आत्मजः
आत्मजनिः : आत्मभूः आत्मसम्भवः आत्मरुहः आत्मसुतिर्ब्रह्मा, तस्य हि आत्मा
कारणमिति रूढिः । वक्ष्यमाणस्याद्यशब्दस्याभिसम्बन्धादात्मजन्मादयोऽपि । अणा-
दयस्तु भृगोरपत्यं भार्गवः, दितेरपत्यं दैत्यः, वत्सस्यापत्यं वात्स्यायन इत्यादि ।
अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः । कविरूट्येत्येव ।
योनिवदात्मजनक आत्मकारक इति भवेत् ।
 
न ह्यात्म-
धार्यात् ध्वजास्त्रपाण्यङ्कमौलिभृन्मण्डनसमानाः ।
घरभर्तृमालिमत्वर्थशालिशेखरसट्टाश्च ॥ ६ ॥
 
धार्यवाचकात्परे ध्वजादयः शेखरान्ता धारकस्य नामाहुः । यथा-वृपध्वजः
शूलास्त्रः पिनाकपाणिः
वृपाः चन्द्रमौलिः : शूलभृत् शशिमण्डन: । समानग्रहणात्सदृ
शार्थाः । वृषकेतन: शूलायुधः वृपलक्ष्मा चन्द्रशिराः चन्द्रभूषणः चन्द्राभरणादयो
गृह्यन्ते । यथा - गङ्गाधरः विनाकभर्ता पिनाकमाली, पिनाकं मालते धारयतीति कृत-
त्वात्, शूली पिनाकशाली शशिशेखरः । कविरूट्येत्येव, तेन सत्यपि धार्यधारकसम्बन्ध
न सर्वेभ्यो धायेंभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्या: । न हि भवति वृपध्वजवच्छूल.
ध्वजः शूलास्त्रवत् चन्द्रास्त्रः पिनाकपाणिवदहिपाणिः वृपाचच्चन्द्राङ्क: चन्द्रमौलिवद्
गङ्गामौलि: शशिमण्डनवत् चन्द्रमण्डनः गङ्गाधरवच्चन्द्रधरः पिजाकभर्तृवच्चन्द्रभर्ता
पिनाकमालिवत्सर्पमाली शूलिवच्छूलवान् शुलशालिवत् चन्द्रशाली चन्द्रशेखरखद्गङ्गा-
शेखर इति ।
 
भोज्यभोजकभावसम्बन्धे यथा -
 
धार्यधारकभावसम्बन्ध यथा-

 
भोज्याद् भुग्लिट्पाय्यन्धोव्रतपाशाशनप्रमुखाः ।
 
-
 
भोज्यं भक्ष्यं तद्वाचिन: शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तां
नामाहुः । यथा - अमृतभुजः अमृतलिहः अमृतपायिन: अमृतान्धसः अमृतवता:
अमृतपा: अमृताशा: अमृताशना देवास्तेषां झमृतं भोज्यमिति रूढिः । प्रमुखशब्द-
स्तत्समानार्थ भोजनादिशब्दपरिग्रहाय । कविरूढयेत्येव । न हि यथाऽमृतभुजस्तथा
ऽमृतवलमा इति भवति ।
पतिकलत्रभावसम्बन्धे यथा-
-
 
पत्युः कान्ता दयिता वधूः प्रणयिनी प्रियाऽङ्गना तुल्याः ।
पत्न्याः प्रणयिप्रियवररमणप्राणेश्वरेशसमाः ॥ ७ ॥
 
पतिर्वरयिता तवाचकाच्छन्दात् परे का तादिसदृशाः शब्दास्तद्वतीनां पतिमतीनां
भार्याणां नामाहुः । यथा - शिवकान्ता शिवदयिता शिववधुः शिवप्रणयिनी शिवप्रिया
शिवाङ्गना गौरी, तस्या हि शिवः पतिरिति रूढिः । तुल्यग्रहणाद्रमणीवल्लभाप्रभृतयो
गृह्यन्ते । कविरूढयेत्येव । न हि भवति यथा शिवकान्ता तथा शिवपरिग्रह इति ।
तथा पत्नीवाचकाच्छन्दात्परे प्रणयिप्रमुखाः शब्दास्तद्वतां कलत्रवतां वरयितॄणां नामा-
ऽऽहुः । यथा - गौरीप्रणयो गौरीप्रियः गौरीवरः गौरीरमण: गौरीप्राणेश्वर: गौरीश:
 
-