This page has been fully proofread once and needs a second look.

स्तबक: १ ]
 
काव्यकल्पलतावृत्तिः ।
 
यौगिकान् शब्दान् व्याचष्टे-
-
 
योगो गुणेन क्रियया सम्बन्धेन कृतोऽन्वयः ।

 
शब्दानां परस्परमर्थानुगमनमन्वयः संयोगः । गुणक्रियाकृतयोगेन यौगिकाना-
मुद्दाहरणम् ॥
 

 
गुणाः स्युर्नीलपीतादिनीलकण्ठायस्ततः ॥ २ ॥
 

 
ततो गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः नीलः कण्ठोऽस्येति

गुणप्राधान्यान्नीलकण्ठः शङ्करः, आदिशब्दाच्छितिकण्ठः कालकण्ठ इत्यादि । सङ्ख्या-

पि गुण एवेति वैशेषिकमते पञ्चबाणण्मुखाऽष्टश्रवोदशमुखादयः । ततः कारणात्पञ्च-

बाणादयोऽपि गुणनिबन्धनयोगाः ॥
 
MADER
 
२९
 

 
क्रियाः करोतिप्रमुखास्ततः स्रष्ट्रटृक्रिया मताः ।
 

 
ततः क्रियातः क्रियानिबन्धनो योगो येपाषान्ते स्रष्टृप्रभृतयः । सृजतीति सर्जन-

प्राधान्यात् स्रष्टा ब्रह्मा । एवं धातेत्यादयः ।
 

 
सम्बन्धं व्याचष्टे-
-
 
सम्बन्धः स्वस्वामित्वादिस्तत्राहुर्नाम तद्वताम् ।

स्वान्नेतृपतिभुक्पालधनमत्त्वर्थकादयः ॥ ३ ॥
 

 
स्वमात्मीयं, स्वामी यस्तत्र प्रभविष्णुस्तयोर्भावः स्वस्वामित्वं तदादिः सम्बन्धः

आदिशब्दाज्जन्यजनकभावादिसम्बन्धः, तत्र स्वस्वामिभावसम्बन्धे नेतृप्रमुखाः शब्दाः

स्वात्परे नियोजितास्तद्वतां स्वामिनां नामाऽऽहुः । मत्वर्थंक इति । मतुस्तद्धित-

स्तस्यार्थोऽस्त्यस्मिन्निति मतुप् प्रत्यविधानात् मतोरर्थो यस्य मत्वर्थंकस्तद्धितो मतुना

समानार्थ इत्यर्थः स च इजणिकादिः । न केवलं मत्वर्थक एव मत्वर्थाव्यभिचारान्मतु.

रपि । आदिशब्दात्पाऽऽदयोऽपि । 'तत्राहुर्नाम तद्वता'मित्युत्तरेष्वप्यनुवर्तनीयम् ।

 
क्रमेणोदाहरणमाह-
-
 

 
भूनेता भूपतिर्भूभुक् भूपालो भूधनस्तथा ।
 

भूमांश्चेति कवे रूढ्या ज्ञेयोदाहरणावली ॥ ४ ॥

 
इतिशब्दः प्रकारार्थस्तेन भुभूपादयोऽपि । कवीनां रूढिः परम्परायाताःता प्रसिद्धिस्तया

न तु कविरूद्व्यतिक्रमेण । यथा कपालीत्यादौ सत्यपि स्वस्वामिभावसम्बन्धे कपाली

मत्वर्थीयान्त एव भवति, न तु कपालपालः कपालघनः कपालभुक् कपालनेता कपाल

पतिरित्यादि ।
 

 
जन्यजनकभावसम्बन्धे यथा-
-
 
जन्याद्विधातृकरसूकृत्कर्तृस्रष्टृसड्जनकमुख्याः ।
 

जनकाद्योनिजजनिभूसंभव रुहसूत्यणाद्यास्तु ॥ ५ ॥

 
जन्यात्कार्यात्परे बिविधातृप्रभृतयस्तद्वतां जनकानां कारणानां नामाहुः । यथा-
-
विश्वविधाता विश्वकरः विश्वसूर्विश्वकृत् विश्वकर्ता विश्वस्रष्टा विश्वसृट् विश्वजनको ब्रह्मा

तस्य हि जन्यं विश्वमिति रूढिः । मुख्यशब्द आद्यर्थस्तेन विश्वकारक इत्यायपिः ।
द्यपि ।
कविरूढिस्त्येियेव । नहि यथा चित्रकुदुच्यते तथा चित्रमूसूरिति । तथा जनकात्परे
 
-