This page has not been fully proofread.

स्तबक: १ ]
 
काव्यकल्पलतावृत्तिः ।
 
यौगिकान् शब्दान् व्याचष्टे-
योगो गुणेन क्रियया सम्बन्धेन कृतोऽन्वयः ।
शब्दानां परस्परमर्थानुगमनमन्वयः संयोगः । गुणक्रियाकृतयोगेन यौगिकाना-
मुद्दाहरणम् ॥
 
गुणाः स्युर्नीलपीतादिनीलकण्ठायस्ततः ॥ २ ॥
 
ततो गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः नीलः कण्ठोऽस्येति
गुणप्राधान्यान्नीलकण्ठः शङ्करः, आदिशब्दाच्छितिकण्ठः कालकण्ठ इत्यादि । सङ्ख्या-
पि गुण एवेति वैशेषिकमते पञ्चबाणपण्मुखाऽष्टश्रवोदशमुखादयः । ततः कारणात्पञ्च-
बाणादयोऽपि गुणनिबन्धनयोगाः ॥
 
MADER
 
२९
 
क्रियाः करोतिप्रमुखास्ततः स्रष्ट्रक्रिया मताः ।
 
ततः क्रियातः क्रियानिबन्धनो योगो येपान्ते स्रष्टृप्रभृतयः । सृजतीति सर्जन-
प्राधान्यात् स्रष्टा ब्रह्मा । एवं धातेत्यादयः ।
 
सम्बन्धं व्याचष्टे-
सम्बन्धः स्वस्वामित्वादिस्तत्राहुनम तद्वताम् ।
स्वान्नेतृपतिभुक्पालधनमत्त्वर्थकादयः ॥ ३ ॥
 
स्वमात्मीयं, स्वामी यस्तत्र प्रभविष्णुस्तयोर्भावः स्वस्वामित्वं तदादिः सम्बन्धः
आदिशब्दाज न्यजनकभावादिसम्बन्धः, तत्र स्वस्वामिभावसम्बन्धे नेतृप्रमुखाः शब्दाः
स्वात्परे नियोजितास्तद्वतां स्वामिनां नामाऽऽहुः । मत्वर्थंक इति । मतुस्तद्धित-
स्तस्यार्थोऽस्त्यस्मिन्निति मतुप् प्रत्यपविधानात् मतोरर्थो यस्य मत्वर्थंकस्तद्धितो मतुना
समानार्थ इत्यर्थः स च इजणिकादिः । न केवलं मत्वर्थक एव मत्वर्थाव्यभिचारान्मतु.
रपि । आदिशब्दात्पाऽऽदयोऽपि । 'तत्राहुर्नाम तद्वता'मित्युत्तरेष्वप्यनुवर्तनीयम् ।
क्रमेणोदाहरणमाह-
-
 
भूनेता भूपतिर्भूभुक् भूपालो भूधनस्तथा ।
 
भूमांश्चेति कवे रूढ्या ज्ञेयोदाहरणावली ॥ ४ ॥
इतिशब्दः प्रकारार्थस्तेन भुपादयोऽपि । कवीनां रूढिः परम्परायाताः प्रसिद्धिस्तया
न तु कविरूद्व्यतिक्रमेण । यथा कपालीत्यादौ सत्यपि स्वस्वामिभावसम्बन्धे कपाली
मत्वर्थीयान्त एव भवति, न तु कपालपालः कपालघनः कपालभुक् कपालनेता कपाल
पतिरित्यादि ।
 
जन्यजनकभावसम्बन्धे यथा-
जन्याद्विधातृकरसूकृत्कर्तृस्रष्टृसड्जनकमुख्याः ।
 
जनकाद्योनिजजनिभूसंभव रुहसूत्यणाद्यास्तु ॥ ५ ॥
जन्यात्कार्यात्परे बिधातृप्रभृतयस्तद्वतां जनकानां कारणानां नामाहुः । यथा-
विश्वविधाता विश्वकरः विश्वसूर्विश्वकृत् विश्वकर्ता विश्वखष्टा विश्वसृट् विश्वजनको ब्रह्मा
तस्य हि जन्यं विश्वमिति रूढिः । मुख्यशब्द आद्यर्थस्तेन विश्वकारक इत्यायपिः ।
कविरूढिस्त्येिव । नहि यथा चित्रकुच्यते तथा चित्रमूरिति । तथा जनकात्परे
 
-