2023-04-20 04:30:30 by manu_css
This page has been fully proofread once and needs a second look.
नियमविशेषो यथा--
नीलकृष्णयोर्हरितकृष्णयोस्तथा श्यामकृष्णयोः ।
पीतपाटलयोः शुक्लगौरयोगसर्पयोः ॥ १०५ ॥
महार्णवसागरयोः क्षीरक्षारसमुद्रयोः ।
कमलासम्पदोः कामध्वजे मकरमत्स्ययोः ॥ १०६ ॥
द्वादशानामप्यर्काणां वार्ध्यत्रिदृग्जचन्द्रयोः ।
चन्द्रे शशैणयोर्विष्णुशेषकूर्मादिकस्य च ॥ १०७ ॥
नारायणदामोदरमाधवप्रभृतेरपि ।
दानवासुरदैत्यानामैक्यमेवाऽभिसंमतम् ॥ १०८ ॥
चतुर्भिः कलापकम् ।
दानवास्तु विप्रचित्तिः शम्बरो नमुचिस्तथा ।
पुलोमादयोऽथ दैत्या हिरण्याख्यो विरोचनः ॥ १०९ ॥
बाणो हिरण्यकशिपुर्वलिप्रह्लादकादयः ।
अथाऽसुरा वृषपर्ववलवृत्रादयः स्मृताः ॥ ११० ॥
स्त्रीणामक्ष्णः कटाक्षाणां शुक्लता कृष्णताऽथवा ।
कृष्णताप्यथ वा शुक्लश्यामता शुक्लकृष्णता ॥ १११ ॥
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता ।
मनोभवस्य मूर्त्तत्वममूर्त्तत्वं च वर्ण्यते ॥ ११२ ॥
देवदेवीस्थितिं विद्यान्नायिकानायकक्रमम् ।
स्वभावान् सर्वजीवानां व्यवस्थां देशकालयोः ॥ ११३ ॥
एतत् श्लोकोक्तभावान् वर्ण्यानां विशेषान्तराणि कविसमयोदाहरणानि मत्कृत-
काव्यकल्पलतापरिमलात् ज्ञेयानि । स्तबकोऽयं गतार्थः ॥
इति श्रीजिनदत्त० वर्ण्यस्थितिस्तबकः पञ्चमः ॥
समाप्तश्चाऽयं छन्दःसिद्धिप्रतानः प्रथमः ॥
---------------------------------
अथ शब्दसिद्धिप्रतानः ।
तत्र पूर्वं रूढयौगिकमिश्रशब्दाख्यानं यथा--
रूढयौगिकमिश्राख्यात्रिधा शब्दाः प्रकीर्तिताः ।
व्युत्पत्तिवर्जिता रूढाः शब्दा आखण्डलादयः ॥ १ ॥
प्रकृतिप्रत्ययविभागेनाऽर्थरहिता व्युत्पत्तिवर्जिताः, शब्दा इत्यनुवाद्यनिर्देशः,
रूढा इति विधेयपदम्, आखण्डलादय इत्युदाहरणम् । न ह्यत्र प्रकृतिप्रत्ययविभागेन
व्युत्पत्तिरस्ति, आदिशब्दान्मण्डपादयः । यद्यपि "नाम च धातुज"मिति शाकटायन-
मतेन रूढा अपि व्युत्पत्तिभाजस्तथापिः वर्णानुपूर्व्यनुज्ञानमात्रप्रयोजनाः तेषां व्युत्पत्तिः,
न पुनरन्वर्थोऽर्थप्रवृत्तौ कारणमिति रूढा अव्युत्पना एव ।