This page has been fully proofread once and needs a second look.

२८
 
नियमविशेषो यथा -
 
-
 
अमरचन्द्रयतिकृता-
--
 
नीलकृष्णयोर्हरितकृष्णयोस्तथा श्यामकृष्णयोः ।

पीतपाटलयोः शुक्लगौरयोगसर्पयोः ॥ १०५ ॥

 
महार्णवसागरयोः क्षीरक्षारसमुद्रयोः ।

कमलासम्पदोः कामध्वजे मकरमत्स्ययोः ॥ १०६ ॥

 
द्वादशानामप्यर्काणां वार्ध्यत्रिद्वदृग्जचन्द्रयोः ।

चन्द्रे शशैणयोर्विष्णुशेषकूर्मादिकस्य च ॥ १०७

 
नारायणदामोदरमाधवप्रभृतेरपि ।
 
[ प्रतानः
 
इति श्रीजिनदत्त० वर्ण्य स्थितिस्तबकः पञ्चमः ॥
समाप्तश्राऽयं छन्दः सिद्धिप्रतानः प्रथमः ॥
 

दानवासुर दैत्यानामैक्यमेवाऽभिसंमतम् ॥ १०८ ॥

 
चतुर्भिः कलापकम् ।
 

 
दानवास्तु विप्रचित्तिः शम्बरो नमुचिस्तथा ।

पुलोमादयोऽथ दैत्या हिरण्याख्यो विरोचनः ॥ १०९ ॥

 
बाणो हिरण्यकशिपुर्वलिप्रह्लाद कादयः ।

अथाऽसुरा वृषपर्ववलवृत्रादयः स्मृताः ॥ ११० ॥

 
स्त्रीणामक्ष्णः कटाक्षाणां शुक्लता कृष्णताऽथवा ।

कृष्णता व्प्यथ वा शुक्लश्यामता शुक्लकृष्णता ॥ १११ ॥

 
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता ।

मनोभवस्य मूर्त्तत्वममूर्त्तत्वं च वर्ण्यते ॥ ११२ ॥

 
देवदेवीस्थितितिं विद्यान्नायिकानायकक्रमम् ।
 

स्वभावान् सर्वजीवानां व्यवस्थां देशकालयोः ॥ ११३ ॥

 
एतत् श्लोकोक्तभावान् वर्ज्ण्यानां विशेषान्तराणि कविसमयोदाहरणानि मस्त्कृत-

काव्यकल्पलतापरिमलात् ज्ञेयानि । स्तबकोऽयं गतार्थः ॥
 
1
 
अथ शब्द

 
इति श्रीजिनदत्त० वर्ण्यस्थितिस्तबकः पञ्चमः ॥
समाप्तश्चाऽयं छन्दः
सिद्धिप्रतानः
 
१-
प्रथमः ॥
 
---------------------------------
 
अथ शब्दसिद्धिप्रतानः ।
तत्र पूर्वं रूढयौगिकमिश्र शब्दाख्यानं यथा-
-
 
रूढयौगिक मिश्रा ख्यात्रिधा शब्दाः प्रकीर्तिताः ।

व्युत्पत्तिवर्जिता रूढाः शब्दा आखण्डलादयः ॥ १ ॥

 
प्रकृतिप्रत्ययविभागेनाऽर्थरहिता व्युत्पत्तिवर्जिताः, शब्दा इत्यनुवाद्यनिर्देशः,
 

रूढा इति विधेयपदम्, आखण्डलादय इत्युदाहरणम् । न ह्यत्र प्रकृतिप्रत्ययविभागेन

व्युत्पत्तिरस्ति, आदिशब्दान्मण्पादयः । यद्यपि "नाम च धातुज" मिति शाकटायन-

मतेन रूढा अपि व्युत्पत्तियाभायास्तथापिः वर्णानुपूर्व्यनुज्ञान मात्र प्रयोजनाः तेषां व्युत्पत्तिः,

न पुनरन्वर्थोऽर्थप्रवृत्तौ कारणमिति रूढा अव्युत्पना एव ।