This page has not been fully proofread.

२८
 
नियमविशेषो यथा -
 
-
 
अमरचन्द्रयतिकृता-
नीलकृष्णयोर्हरितकृष्णयोस्तथा श्यामकृष्णयोः ।
पीतपाटलयोः शुक्लगौरयोगसर्पयोः ॥ १०५ ॥
महार्णवसागरयोः क्षीरक्षारसमुद्रयोः ।
कमलासम्पदोः कामध्वजे मकरमत्स्ययोः ॥ १०६ ॥
द्वादशानामप्यर्काणां वार्ध्यत्रिद्वग्जचन्द्रयोः ।
चन्द्रे शशैणयोर्विष्णुशेषकर्मादिकस्य च ॥ १०७
नारायणदामोदरमाधवप्रभृतेरपि ।
 
[ प्रतानः
 
इति श्रीजिनदत्त० वर्ण्य स्थितिस्तबकः पञ्चमः ॥
समाप्तश्राऽयं छन्दः सिद्धिप्रतानः प्रथमः ॥
 
दानवासुर दैत्यानामैक्यमेवाऽभिसंमतम् ॥ १०८ ॥
चतुर्भिः कलापकम् ।
 
दानवास्तु विप्रचित्तिः शम्बरो नमुचिस्तथा ।
पुलोमादयोऽथ दैत्या हिरण्याख्यो विरोचनः ॥ १०९ ॥
बाणो हिरण्यकशिपुर्वलिप्रह्लाद कादयः ।
अथाऽसुरा वृषपर्ववलवृत्रादयः स्मृताः ॥ ११० ॥
स्त्रीणामदणः कटाक्षाणां शुक्लता कृष्णताऽथवा ।
कृष्णता व्यथवा शुक्लश्यामता शुक्लकृष्णता ॥ १११ ॥
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता ।
मनोभवस्य मूर्त्तत्वममूर्त्तत्वं च वर्ण्यते ॥ ११२ ॥
देवदेवीस्थिति विद्यान्नायिकानायकक्रमम् ।
 
स्वभावान् सर्वजीवानां व्यवस्थां देशकालयोः ॥ ११३ ॥
एतत् श्लोकोक्तभावान् वर्ज्यानां विशेषान्तराणि कविसमयोदाहरणानि मस्कृत-
काव्यकल्पलतापरिमलात ज्ञेयानि । स्तबकोऽयं गतार्थः ॥
 
1
 
अथ शब्दसिद्धिप्रतानः ।
 
१-
तत्र पूर्व रूढयौगिकमिश्र शब्दाख्यानं यथा-
रूढयौगिक मिश्रा ख्यात्रिधा शब्दाः प्रकीर्तिताः ।
व्युत्पत्तिवर्जिता रूढाः शब्दा आखण्डलादयः ॥ १ ॥
प्रकृतिप्रत्ययविभागेनाऽर्थरहिता व्युत्पत्तिवर्जिताः, शब्दा इत्यनुवाद्यनिर्देशः,
 
रूढा इति विधेयपदम्, आखण्डलादय इत्युदाहरणम् । न ह्यत्र प्रकृतिप्रत्ययविभागेन
व्युत्पत्तिरस्ति, आदिशब्दान्मण्ढपादयः । यद्यपि "नाम च धातुज" मिति शाकटायन-
मतेन रूढा अपि व्युत्पत्तियाजयापिः वर्णानुपूर्व्यनुज्ञान मात्र प्रयोजनाः तेषां व्युत्पत्तिः,
न पुनरन्वर्थोऽर्थप्रवृत्तौ कारणमिति अव्युत्पना एव ।