This page has not been fully proofread.

स्तबेक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
२७
 
मानाद्यं गोत्रस्खलनेष्र्ष्या वक्रोक्तिसम्भ्रमाश्लेषाः ॥ १० ॥
जलकेलौ सरः क्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोविन्दुद्वग्रागा भूषणच्युतिः ॥ ९१ ॥
सुरते सात्त्विका भावाः सीत्कार: कुडूमलाक्षता ।
काञ्चीकङ्कणखीररवोऽधरनखक्षते ॥ ९२ ॥
वर्येषु वर्ण्यभावानां दिङ्मात्रमिति कीर्तितम् ।
चिद्रूपैश्चिन्त्यमानातां भवत्येषामनन्तता ॥ ९३ ॥
असतोऽपि निवन्धेनाऽनिबन्धेन सतोऽपि च ।
नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥ १४ ॥
असतोऽपि निबन्धो यथा -
 
रत्नादि यत्र तत्राद्रौ हंसायल्पजलाशये ।
जलेभाढ्यं नभोनद्यामम्भोजाद्यं नदीष्वपि ॥ १५ ॥
तिमिरस्य तथा मुष्टिग्राह्यं सूचीविभेद्यताम् ।
श्रखलिग्राह्यता कुम्भोपवाह्यत्वे विधुत्विषः ॥ १६ ॥
शुक्लत्वं कीर्तिहासादौ काष्पयं दुष्कीर्त्यवादिषु ।
प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥ ९७ ॥
विभावर्या भिन्नतटाश्रयणं चक्रवाकयोः ।
ज्योत्स्नापानं चकोराणां वर्णयेदसदप्यदः ॥ १८ ॥
चतुर्भिः कलापकम् ।
 
सतोऽव्यनिबन्धो यथा -
 
वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने ।
 
अशोके च फलं ज्योत्स्नाध्यान्ते कृष्णान्यपक्षयोः ॥ ९९ ॥
 
कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तताम् ।
प्रियकुपुष्पे पीतत्वं सरोजमुकुलादिषु ॥ १०० ॥
हरितत्वं दिवा नीलोत्पलानां स्मेरता दिवा ।
शेफालिकासुमे भ्रंशं वर्णयेन्न सदस्यदः ॥ १०१ ॥
त्रिभिर्विशेषकम् ।
 
नियमो यथा -
 
मुक्तास्ताम्रपर्यामेवाऽब्धिष्वेव मकरानपि ।
भूर्जदून हिमवत्येव मलये ह्येव चन्दनम् ॥ १०२ ॥
सामान्यग्रहणे वारिमुचां कृष्णत्वमेव हि ।
रक्तत्वमेव रत्नानां पुष्पाणां शौक्ल्यमेव च ॥ १०३ ॥
तथा वसन्त एवान्यभृतानां ध्वनितोद्भवम् ।
वर्षास्वेव मयूराणां रुतं नृत्तं च वर्णयेत् ॥ १०४ ॥
त्रिभिर्विशेषकम् ।