This page has been fully proofread once and needs a second look.

२२
 
अमरचन्द्रयतिकृता-
ध्यानं तपस्सु, कृतेषु कृपा, व्रतेषु
 
( १ ) विष्णुपदम् ।
 

ब्रह्मव्रतं, क्षितिपतित्वमुरीकरोतु ॥
 
[ प्रतानः १-

 
वृषो विषाणप्रहतीस्तनोत्यहो
 

जयेहया जम्भनिशुम्भकुम्भिनः ।

मया समं तत्त्वमतत्त्ववित्तमो
 

मुधा कृतोन्मादविवादसादरः ॥

 
त्वयाऽब्धेरारब्धं करचरणचारेण तर
 
णं
करेणोपक्रान्तं स्थगनकरणं चाऽम्बरमणेः ।

शिरोग्रेण स्वर्गाचलदलनमङ्गीकृतमहो
 

मदोग्रेण ध्याता यदिह मम वादेन समता ॥

 
वदामो यद्दामोदर ( [^ ) ]पदसरिद्वी चिपटल-

प्रगल्भाभिर्वाग्भिर्भवति मतिहीने सति पुनः ।

तदन्धाग्रे नृत्यं बधिरपुरुषे मन्त्रकरणं
 

दृषत्पेषोत्कर्षो गगनहननं मुष्टिनिवहैः ॥

 
प्रारेभे सिकताकणाशनमिदं प्रोद्दामदावानल-

ज्वालालिङ्गनमुग्रशेपतरलव्यालावलीखेलनम् ।

सन्तप्तत्रपुपानकर्म भवता यद्विश्वविश्वम्भरा-

विद्वद्वन्द्यपदद्वयस्य मम भो वादोक्तिरङ्गीकृता ॥

 
पक्षीन्द्र पक्षैरवतंसकाङ्क्षा स्वर्दन्तिदन्तैः सितकुण्डलाशा ।

गजास्य कुम्भस्थलमौक्तिकौघैर्हारस्पृहा मज्जयमीहसे यत् ॥

 
हस्तप्रस्तरताडनेन हि कृतः कृष्णाहिरुद्यत्फण:
 

सिंह: स्वाघिहः स्वाङ्घ्रिमहाप्रहारविधिना सुप्तः सुखं बोधितः ।

वातस्याऽभिमुखस्थितेन भवता दावाग्निरुज्ज्वालितो
 

वादोन्मादवशंवदेन यदहं साटोपमाकोपितः ॥

 
जातिः सातिशया तव स्फुरति का श्रीसङ्कुलं किकिं कुलं

देश:शः क्लेशनिवेशलेशरहितः कः सुन्दरं किं पुरम् ।

शास्त्रेष्वत्र पवित्रता मतिरपि प्रौढप्ररूढैर्गिरां
 

भारैः सारतरं विशारद ! वद प्रीत्यै मम प्रोन्मदः ॥

 
किं त्वं लक्षणदक्षिणोऽसि किमु वा साहित्यसौहित्यभूः

छन्दःकन्दलितोऽसि किं च किमु वाऽलङ्कारसारस्थितिः ।

किं वा तर्हि वितर्ककर्कशमनाः किं ज्ञानविज्ञानवान्

यज्जानासि सभां जयेयमिति भोः सर्व सगवेंर्वे वद ॥

 
सर्वव्याकरणार्णवान्तरमपि- क्षोभोद्यमै र्निर्मला
 

छन्दः प्रावणोत्थितावपि विधालङ्कारतारप्रभा ।
 

 
 
[^१] विष्णुपदम् ।