This page has been fully proofread once and needs a second look.

स्तवकः ४ ]
 
काव्य कल्पलतावृत्तिः ।
 
२१
 
अथर्वण अहङ्कार हुङ्कार ओङ्कार आकार कोप गोप आटोप रोप क्रोध बोध योध

रोध शोध उत्कर्ष अमर्ष अपकर्ष काय उपाय । ]
 

 
स्वोत्कर्षो यथा-
-
 
ज्योतिपाषामिव तिग्मांशुताराणामिव चन्द्रमाः ।

सैन्येशानामिव स्कन्दः कवीनामहमुत्तमः ॥
 

 
प्रशंसाहेतोः सारसङ्ग्रहो यथा-
-
 

 
वसूनां पावकश्चन्द्रस्ताराणां, ज्योतिषां रविः ।

रुद्राणां शङ्करो, यक्षरक्षसां धनदोऽपि च ॥

 
गन्धर्वाणां चित्ररथो, बृहस्पतिः पुरोधसाम् ।

महर्षीणां भृगुमुनिर्देवर्षीणां च नारदः ॥

 
सैन्येशानां कार्तिकेयो, मरीचिर्मरुतामपि ।

सिद्धानां कपिलो, व्यासो सुनीनां, वेगिनां मरुत् ॥

 
यादसां वरुणोऽनन्तो नागानां, रूपिणां स्मरः ।

सर्पाणां वासुकिः, शुक्रः कवीनां, नृपतिर्नृणाम् ॥

 
सर्वशस्त्रभृतां रामः, पाण्डवानां धनञ्जयः ।

सर्वायुधानां दम्भोलिः, पक्षिणां गरुडस्तथा ॥

 
उच्चैःश्रवास्तुरङ्गाणां गजानामभ्रमूभूपतिः ।

विद्यानामध्यात्मविद्या गायत्री छन्दसामपि ॥

 
झषाणां मकरः, सिंहो मृगाणां, कामधुग् गवाम् ।

पर्वतानां मेरुगिरिः, स्थावराणां हिमालयः ॥

 
नदीनां जन्हुह्नुतनया सरसां सरिताम्पतिः ।

अक्षराणामकारक्षश्च भूतानामपि चेतना ॥

 
वेदानां सामवेदोऽपि मासानां मार्गशीर्षक: ।

यज्ञानां जपयज्ञश्च श्रीवृक्षः सर्वशाखिनाम् ॥

 
वसन्तः सकलर्तूनामोषधीनां यवोऽपि च ।

तृणानां दर्भाभो, धातूनां स्वर्णं, खानां ([^)] मनस्तथा ॥

 
प्रशस्यः पर्जन्यो भुवनजनने जीवनसृजां
 

सुधांशुर्धिष्ण्यानां, पवनपथरत्नं द्युतिमताम् ।

गिरीणां स्वर्णाद्रिर्मणिसमुदयानां सुरमणि-
द्

र्
रुणामाणां कल्पद्रुः, सुकविनिवहानामहमहो ॥

 
इतरेषामपि वर्ण्यानामुत्कर्षायोपमानान्येतानि कल्पनीयानि । यथा -
-
 
पीयूषमोषधिषु, शाखिषु कल्पशाखी,
 

चिन्तामणिर्मणिषु, धेनुषु कामधेनुः ।
 
(

 
 
[^
)] इन्द्रियाणाम् ।