This page has not been fully proofread.

स्तवकः ४ ]
 
काव्य कल्पलतावृत्तिः ।
 
२१
 
अथर्वण अहङ्कार हुङ्कार ओङ्कार आकार कोप गोप आटोप रोप क्रोध बोध योध
रोध शोध उत्कर्ष अमर्ष अपकर्ष काय उपाय । ]
 
स्वोत्कर्षो यथा-
ज्योतिपामिव तिग्मांशुताराणामिव चन्द्रमाः ।
सैन्येशानामिव स्कन्दः कवीनामहमुत्तमः ॥
 
प्रशंसाहेतोः सारसङ्ग्रहो यथा-
-
 
वसूनां पावकश्चन्द्रस्ताराणां, ज्योतिषां रविः ।
रुद्राणां शङ्करो, यक्षरक्षसां धनदोऽपि च ॥
गन्धर्वाणां चित्ररथो, बृहस्पतिः पुरोधसाम् ।
महर्षीणां भृगुमुनिर्देवर्षीणां च नारदः ॥
सैन्येशानां कार्तिकेयो, मरीचिर्मरुतामपि ।
सिद्धानां कपिलो, व्यासो सुनीनां, वेगिनां मरुत् ॥
यादसां वरुणोऽनन्तो नागानां, रूपिणां स्मरः ।
सर्पाणां वाइकिः, शुक्रः कवीनां, नृपतिर्नृणाम् ॥
सर्वशस्त्रभृतां रामः, पाण्डवानां धनञ्जयः ।
सर्वायुधानां दम्भोलिः, पक्षिणां गरुडस्तथा ॥
उच्चैःश्रवास्तुरङ्गाणां गजानामभ्रमूपतिः ।
विद्यानामध्यात्मविद्या गायत्री छन्दसामपि ॥
झषाणां मकरः, सिंहो मृगाणां, कामधुग् गवाम् ।
पर्वतानां मेरुगिरिः, स्थावराणां हिमालयः ॥
नदीनां जन्हुतनया सरसां सरिताम्पतिः ।
अक्षराणामकारक्ष भूतानामपि चेतना ॥
वेदानां सामवेदोऽपि मासानां मार्गशीर्षक: ।
यज्ञानां जपयज्ञश्च श्रीवृक्षः सर्वशाखिनाम् ॥
वसन्तः सकलतूनामोषधीनां यवोऽपि च ।
तृणान दर्भा, धातूनां स्वर्ण, खानां (१) मनस्तथा ॥
प्रशस्यः पर्जन्यो भुवनजनने जीवनसृजां
 
सुधांशुर्धिष्ण्यानां, पवनपथरत्नं द्युतिमताम् ।
गिरीणां स्वर्णाद्रिर्मणिसमुदयानां सुरमणि-
द्रुमाणां कल्पद्रुः, सकविनिवहानामहमहो ॥
इतरेषामपि वर्ण्यानामुत्कर्षायोपमानान्येतानि कल्पनीयानि । यथा -
पीयूषमोषधिषु, शाखिषु कल्पशाखी,
 
चिन्तामणिर्मणिषु, धेनुषु कामधेनुः ।
 
( १ ) इन्द्रियाणाम् ।