This page has not been fully proofread.

स्तबकः २ ]
 
उत्तरभागस्यैकाक्षरत्वे यथा -
 
-
 
काव्यकल्पलतावृत्तिः ।
 
एतासां राजति सुमनर्सा दामकण्ठावलम्बी । इति ।
 
यथा-
खराडरशिरोरत्न निघृष्टचरणारविन्दः शिवः, इति ।
पादान्तेऽपि पदमध्ये न प्रायः क्रियते यतिः ।
 
यथा--
प्रणमत भवबन्धक्केशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम् । इति ।
सन्धौ स्वरः क्वचित् पूर्वान्तवत् क्वचित् परादिवत् ॥ ३४ ॥
पूर्वान्तवद्यथा-
परादिवद्यथा-
यथा-
स्यादस्थानोपगतयमुनासङ्गमेवाऽभिरांमा ।
जम्भारातीभकुम्भोद्भवमिव दधत इति ।
दिक्कालाधनवच्छिन्नाऽनन्तचिन्मात्रमूर्तये ।
 
-
 
स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षीत् -- इति ।
न पूर्वोत्तरभागस्थैकाक्षरे स्वरसन्धयः ।
 
अस्या वक्त्राब्जमवजितपूर्णेन्दुशोभं विभाति । इति ।
स्यात्सन्धौ व्यञ्जनं याद्यादेशोऽपि च परादिवत् ॥ ३५ ॥
 
सन्धौ व्यञ्जनं यथा-
शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोपि वक्रवकेणाकारि किन्ते- इति ।
याद्यादेद्योपि यथा -
 
अच्छिन्द्रप्रसराणि नाथ भवतः पातालकुक्षौ यशां-
स्यद्यापि क्षपयन्ति कोकिलकुलच्छायासपलं तमः । इति ।
वितंतघनतुषारक्षोदशुभ्रास दूर्वा
 
स्वविरलपदमालामुज्ज्वलामुल्लिखन्तः । इति ।
सम्बद्धानामुत्तरेण पादेनैकचरस्पृशाम् ।
प्रादीनां पूर्वपादान्ते यतिर्न क्रियते क्वचित् ॥ ३६ ॥
 
१३
 
दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वद्वियोगः ।
पूर्वपदसम्बद्धानामनेकाक्षराणां तु क्रियते ।
पूर्वपदसम्बद्धानां यथा-
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अनेकाक्षराणां तु यथा-
दूरारूढप्रमोदं हसितमिव परिस्पृष्टमासां सखीभिः । इति ।
प्राषपदाश्रितैकाक्षरं चादेः पूर्वं तु नो यतिः ॥ ३७ ॥