This page has been fully proofread once and needs a second look.

स्तबंक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
प्रणतनृपतिराजीमौलिकोटीरकोटीस्फटिकरुचिजलान्तः
 
शोभमानाङ्घ्रिपद्मः ॥
 

एवं परकृतान्यपि काव्यानि पदान्तरैश्छदोन्तरैश्छन्दः सिद्धये परावर्तयेत् ।

 
अक्क्रेलेशेन छन्दसां ज्ञानोपायमाह-
-
 
कियन्मात्रेषु सिद्धेषु छन्दःस्वभ्यासतः सुधीः ।

शेषाणां छन्दसां सिध्यै छन्दोमर्माणि चिन्तयेत् ॥ ३१ ॥

 
यथा - -भद्रिकायामन्ते गलाभ्यां रथोद्धता । इन्द्रवज्रोपेन्द्रवञ्ज्रयोरन्तगुरोः प्रागधिक-

लघुना इन्द्रवंशावंशस्थे भवतः । विदुष्यामन्त्यवर्णद्वयात् प्राकूक् लघुना मोटकम् । मोटके

पूर्वगुरुस्थाने लाभ्यां तोटकम् । रथोद्धतायामादौ गुरुणा ललिता । वंशस्थे सप्ताक्षराग्रे

लघुना मञ्जुभाषिणी । रथोद्धतायामादौ ताभ्यां नन्दिनी । स्वागतायां प्रथमं लाभ्यां

कुटजम् । वंशस्थे पूर्वलघुना सुदन्तम् । इन्द्रवज्रायां चतुरक्षराग्रे नणेन वसन्त-

तिलका । शालिन्यां चतुरक्षरान्ते चतुर्गुरुभिश्चित्रा । वसन्ततिलकायाः प्रान्तगुरोः

प्राक् लघुना मृदङ्गकः । शिखरिण्याः प्रान्तगुरोः प्राक् लघुद्वयस्थाने गुरुणा

जयानन्दम् । शालिन्यां चतुरक्षराग्रे नसाभ्यां मन्दाक्रान्ता । लक्ष्म्यां सप्ताक्षर-

प्रान्ते नगाभ्यां काञ्ची । मन्दाक्रान्तायां चतुरक्षराग्रे लघुना चन्द्रलेखा । मन्दा.
-
क्रान्तायां चतुरक्षराग्रे गुरुणा कुसुमितलतावेल्लिता । हरिण्यामादौ लघुना ललितम् ।

मन्दाक्रान्तायामादौ लगाभ्यां मेघविस्फूर्जिता । शार्दूले आद्यगुरुस्थाने लाभ्यां

मत्तेभविक्रीडितम् । शार्दूलस्य प्रान्तचतुरक्षरस्थाने सगणेन शार्दूलललितम् । मेघ-

विस्फूर्जितायां षडक्षराग्रे लघुना शोभा । काञ्च्यां सप्ताक्षराग्रे लाभ्यां चित्रमाला ।

काञ्च्यां सप्ताक्षरान्ते नमःभगैः स्रग्धरा । काञ्च्यां सप्ताक्षराग्रे नगणेन स्रग्धरा-

यामाद्यगुरुस्थाने । लाभ्यां महास्रग्धरा । शार्दूलविक्रीडितान्ते सलगै र्विश्भ्रम-

गतिः । प्रमिताक्षरायामाद्यपञ्चाक्षरैः पर्यन्ते क्षिप्तैर्दुद्रुतविलम्बितम् । स्रुग्धराया

यससाद्यसप्ताक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैर्जया । स्रग्धराया आंद्यसप्तक्षरैः शार्दूलस्य

प्रान्तसप्ताक्षरै र्ज्योत्स्ना । मालिन्या आद्याष्टाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैश्चन्द्रो-

द्योतः । मालिन्या आद्याष्टाक्षरैर्हरिण्याः प्रान्तससाप्ताक्षरैरुपमालिनी । मन्दाक्रान्ताया

आद्यदशाक्षरैः शिखरिण्याः प्रान्तषक्षरैर्मदनललिता । शालिन्या आद्यचतुरक्षरैः

शार्दूलस्य प्रान्तद्वादशाक्षरैः कामलता । मन्दाक्रान्ताया आद्यदशाक्षरैः शार्दूलस्य प्रान्त-

सप्ताक्षरै र्हरिणी । हरिण्या आद्यदशाक्षरैः शालिन्याः प्रान्तसप्ताक्षरैः पद्मम् । हरिण्या

आद्यदशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः रोहिणी । स्रग्धराया आद्यसप्ताक्षरैः शार्दूलस्य

प्रान्तैकादशाक्षरैः काञ्ची । चन्द्रलेखाया आद्यैकादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैः

चलम् । चन्द्रलेखाया आद्यैकादशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः केसरम् । हरिण्या

आद्यैकादशाक्षरैः शालिन्याः प्रान्तसप्ताक्षरैश्चन्द्रमाला । शिखरिण्या आद्यद्वाशाक्षरैर्हरिण्याः

प्रान्तसप्ताक्षरै र्मकरन्द्रिदिका । शिखरिण्या आद्यद्वादशाक्षरै: शार्दूलस्य प्रान्त सप्ताक्षरैः
सप्ताक्षरैः
छाया । स्ग्धराया आद्य चतुर्दशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैः सुवदना । इत्यादि

स्वबुध्याऽप्यूडाह्यम् ।
 

 
११