This page has not been fully proofread.

स्तबंक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
प्रणतनृपतिराजीमौलिकोटीरकोटीस्फटिकरुचिजलान्तः
 
शोभमानाङ्घ्रिपद्मः ॥
 
एवं परकृतान्यपि काव्यानि पदान्तरैश्छदोन्तरैश्छन्दः सिद्धये परावर्तयेत् ।
अक्क्रेशेन छन्दसां ज्ञानोपायमाह-
कियन्मात्रेषु सिद्धेषु छन्दःस्वभ्यासतः सुधीः ।
शेषाणां छन्दसां सिध्यै छन्दोमर्माणि चिन्तयेत् ॥ ३१ ॥
यथा - भद्रिकायामन्ते गलाय रथोद्धता । इन्द्रवज्रोपेन्द्रवञ्ज्रयोरन्तगुरोः प्रागधिक-
लघुना इन्द्रवंशावंशस्थे भवतः । विदुष्यामन्त्यवर्णद्वयात् प्राकू लघुना मोटकम् । मोटके
पूर्वगुरुस्थाने लाभ्यां तोटकम् । रथोद्धतायामादौ गुरुणा ललिता । वंशस्थे सप्ताक्षराग्रे
लघुना मञ्जुभाषिणी । रथोद्धतायामादौ ताभ्यां नन्दिनी । स्वागतायां प्रथमं लाभ्यां
कुटजम् । वंशस्थे पूर्वलघुना सुदन्तम् । इन्द्रवज्रायां चतुरक्षराग्रे नमणेन वसन्त-
तिलका । शालिन्यां चतुरक्षरान्ते चतुर्गुरुभिश्चित्रा । वसन्ततिलकायाः प्रान्तगुरोः
प्राक् लघुना मृदङ्गकः । शिखरिण्याः प्रान्तगुरोः प्राक् लघुद्वयस्थाने गुरुणा
जयानन्दम् । शालिन्यां चतुरक्षराग्रे नसाय मन्दाक्रान्ता । लक्ष्म्यां सप्ताक्षर-
प्रान्ते नगाभ्यां काञ्ची । मन्दाक्रान्तायां चतुरक्षराग्रे लघुना चन्द्रलेखा । मन्दा.
क्रान्तायां चतुरक्षराग्रे गुरुणा कुठमितलतावेलिता । हरिण्यामादौ लघुना ललितम् ।
मन्दाक्रान्तायामादौ लगाभ्यां मेघविस्फूर्जिता । शार्दूले आद्यगुरुस्थाने लाभ्यां
मत्तेभविक्रीडितम् । शार्दूलस्य प्रान्तचतुरक्षरस्थाने सगणेन शार्दूलललितम् । मेघ-
विस्फूजितायां षडक्षराग्रे लघुना शोभा । काऊच्यां सप्ताक्षराग्रे लाभ्यां चित्रमाला ।
काञ्चयां सप्ताक्षरान्ते नमः स्रग्धरा । कायां सप्ताक्षराग्रे नगणेन स्रग्धरा-
यामायगुरुस्थाने । लाभ्यां महास्रग्धरा । शार्दूलविक्रीडितान्ते सलगै विश्रम-
गतिः । प्रमिताक्षरायामाबपञ्चाक्षरैः पर्यन्ते क्षिप्तैर्दुतविलम्बितम् । स्रुग्धराया
आयससाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैर्जया । स्रग्धराया आंद्यसप्तक्षरैः शार्दूलस्य
प्रान्तसप्ताक्षरै ज्योत्स्ना । मालिन्या आद्याष्टाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैश्चन्द्रो-
द्योतः । मालिन्या आद्याष्टाक्षरैर्हरिण्याः प्रान्तससाक्षरैरुपमालिनी । मन्दाक्रान्ताया
आद्यदशाक्षरैः शिखरिण्याः प्रान्तषड़क्षरैर्मदनललिता । शालिन्या आयचतुरक्षरैः
शार्दूलस्य प्रान्तद्वादशाक्षरैः कामलता । मन्दाक्रान्ताया आधदशाक्षरैः शार्दूलस्य प्रान्त-
सप्ताक्षरै हरिणी । हरिण्या आद्यदशाक्षरैः शालिन्याः प्रान्तसप्ताक्षरैः पद्मम् । हरिण्या
आद्यदशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः रोहिणी । स्रग्धराया आद्यसप्ताक्षरैः शार्दूलस्य
प्रान्तैकादशाक्षरैः काञ्ची । चन्द्रलेखाया आद्यैकादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैः
चलम् । चन्द्रलेखाया आद्यैकादशाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैः केसरम् । हरिण्या
आद्यैकादशाक्षरैः शलिन्याः प्रान्तसप्ताक्षरैश्चन्द्रमाला । शिखरिण्या आद्यद्वाशाक्षरैर्हरिण्याः
प्रान्तसप्ताक्षरै र्मकरन्द्रिका । शिखरिण्या आधद्वादशाक्षरै: शार्दूलस्य प्रान्त सप्ताक्षरैः
छाया । स्नग्धराया आद्य चतुर्दशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैः सुवदना । इत्यादि
स्वबुध्याऽप्यूडाम् ।
 

 
११