This page has been fully proofread once and needs a second look.

१०
 
अमरचन्द्रयतिकृता-
लोकानां या चेष्टा दृश्यते सा सा काव्यबन्धे न कार्या, यथा-
-
 
पुष्पाणि पाणिदेशेऽसौ कृत्वा क्रीणाति कामुकः ।

ताम्बूलिकोऽपि ताम्बूलमस्य पश्याऽर्पयत्यसौ

 
मित्रेण सममालापमयमारचयत्यहो ।

अयं हृष्टो हृसत्युच्चैरयं गायति गायनः ॥
 

 
पुनरुपायान्तरमाह
-
 
--
 
तदर्थान्यपदैः स्वान्यश्लोकार्थं परिवर्तनात् ।
 

तत्रैव छन्दस्यभ्यस्येदन्यच्छन्दोन्तरेष्वपि ( [^ )] ॥ ३० ॥

 
स्वकृतं परकृतं वा श्लोकं तदर्थेन च नवैः पदैस्तेनैव छन्दसा छन्दोऽन्तरैर्वा परिवर्तयेत् ।

यथा तन्त्रैव छन्दसि -
 
--
 
प्रत्यर्थिपृथिवीपालतमोजालदिवाकरः ।

नीतिव्रततिपर्जन्यो राजते पृथिवीपतिः ॥

 
प्रत्यनीकावनीकान्तध्वान्त विध्वंसनांशुमान् ।

नयवल्लिवनाम्भोदः शोभते भूमिवल्लभः ॥

 
प्रतिपक्षक्षमानाथतिमिरोन्माथभानुमान् ।

न्यायवल्लीपयोवाहः स विभाति भुवो विभुः ॥
 
[ प्रतानः १-

 
छन्दोन्तरैर्यथा--

 
प्रत्यर्थिपृथ्वीहृदयाधिनाथध्वान्तौघविध्वंसनवासरेशः ।

सन्नीतिवल्लीवननीरवाहो विश्वम्भराया दयितो विभाति ॥

 
दुर्धरारिधरणीधवोद्धतध्वान्त मण्डल विखण्डनांशुमान् ।

नीतिवल्लिवननूतनाम्बुदो मेदिनीविभुरसौ विभासते ॥

 
क्रूरारातिक्ष्मापजातिप्रतानध्वान्तस्तो मध्वंसनव्योमरत्नम् ।

न्यायोन्मीलद्वल्लिनव्याम्बुवाहो भूभामिन्या वल्लभो भासतेऽसौ ॥

 
दृप्य द्विरोधिधरणीदयितान्धकारप्राग्भारतारमददारुणतीक्ष्णभानुः ।
सन्न्यायवर्तिवन

सन्न्यायवर्तिवन
नूतनतोयवाहो विभ्राजते वसुमतीयुवतीभुजङ्गः ॥

 
मालिन्यामेव यथा-
-
 
अवनिधव किरीटन्यस्तवैदूर्यरत्न द्युतिमिषमधुपाली
सेव्यपादारविन्दः ।

निखिलनृपति चुचूडामाल्यसौरभ्यलुभ्यन्मधुपयुवतिराजीनादवाचालपादः ॥
 

 
अतुलधरणिपालश्रेणिवेणिप्रसूनप्रसृमरमकरन्दरूस्नातपादारविन्दः ।

प्रणमदवनिनाथोत्तंसमाणिक्यमालाकिरणघुसृणनीरस्नातपादाब्जयुग्मः ॥

 
नमदखिलधरित्रीनाथचूडाकिरीटस्फटिककिरणमाला सेव्यमानाधिपः ।
ङ्घ्रिपद्मः ।
निजचरणनखांशुव्याजकाश्मीरपङ्कक्षणतिलकितनस्त्म्रीभूतभूपालफालः ॥

 
ततनृपतिकिरीटस्फारमाणिक्यमालास्फुरदरुणमयूखद्योतमानाधिङ्घ्रिपीठः ।
(

 
 
[^
)] तत्रैव छन्दसा छन्दोन्तरैर्वा परिवर्तयेत् - --इति ख० पुस्तके पाठः .. ।