This page has not been fully proofread.

१०
 
अमरचन्द्रयतिकृता-
लोकानां या चेष्टा दृश्यते सा सा काव्यबन्धे न कार्या, यथा-
पुष्पाणि पाणिदेशेऽसौ कृत्वा क्रीणाति कामुकः ।
ताम्बूलिकोऽपि ताम्बूलमस्य पश्याऽर्पयत्यसौ ।
मित्रेण सममालापमयमारचयत्यहो ।
अयं हृष्टो हृसत्युचैरयं गायति गायनः ॥
 
पुनरुपायान्तरमाह
-
 
तदर्थान्यपदैः स्वान्यश्लोकार्थं परिवर्तनात् ।
 
तत्रैव छन्दस्यभ्यस्येदन्यच्छन्दोन्तरेष्वपि ( १ ) ॥ ३० ॥
स्वकृतं परकृतं वा श्लोकं तदर्थेन च नवैः पदैस्तेनैव छन्दसा छन्दोऽन्तरैव परिवर्तयेत् ।
यथा तन्त्रैव छन्दसि -
 
प्रत्यर्थिपृथिवीपालतमोजालदिवाकरः ।
नीतिव्रततिपर्जन्यो राजते पृथिवीपतिः ॥
प्रत्यनीकावनीकान्तध्वान्त विध्वंसनांशुमान् ।
नयवल्लिवनाम्भोदः शोभते भूमिवल्लभः ॥
प्रतिपक्षक्षमानाथतिमिरोन्माथभानुमान् ।
न्यायवल्लीपयोवाहः स विभाति भुवो विभुः ॥
 
[ प्रतानः १-
छन्दोन्तरैर्यथा--
प्रत्यर्थिपृथ्वीहृदयाधिनाथध्वान्तौघविध्वंसनवासरेशः ।
सन्नीतिवल्लीवननीरवाहो विश्वम्भराया दयितो विभाति ॥
दुर्धरारिधरणीधवोद्धतध्वान्त मण्डल विखण्डनांशुमान् ।
नीतिवल्लिवननूतनाम्बुदो मेदिनीविभुरसौ विभासते ॥
क्रूरारातिक्ष्मापजातिप्रतानध्वान्तस्तो मध्वंसनव्योमरत्नम् ।
न्यायोन्मीलहल्लिनव्याम्बुवाहो भूभामिन्या वल्लभो भासतेऽसौ ॥
दृप्य द्विरोधिधरणीदयितान्धकारप्राग्भारतारमददारुणतीक्ष्णभानुः ।
सन्न्यायवर्तिवन
नूतनतोयवाहो विभ्राजते वसमतीयुवतीभुजङ्गः ॥
मालिन्यामेव यथा-
अवनिधव किरीटन्यस्तवैदूर्यरत्न द्युतिमिषमधुपाली
सेव्यपादारविन्दः ।
निखिलनृपति चुडामाल्यसौरभ्यलुभ्यन्मधुपयुवतिराजीनादवाचालपादः ॥
 
अतुलधरणिपालश्रेणिवेणिप्रसूनप्रसृमरमकरन्दरूनातपादारविन्दः ।
प्रणमदवनिनाथोत्तंसमाणिक्यमालाकिरणघुसृणनीरस्नातपादाब्जयुग्मः ॥
नमदखिलधरित्रीनाथचूडाकिरीटस्फटिककिरणमाला सेव्यमानाधिपः ।
निजचरणनखांशुव्याजकाश्मीरपक्षणतिलकितनस्त्रीभूतभूपालफालः ॥
ततनृपतिकिरीटस्फारमाणिक्यमालास्फुरदरुणमयूखद्योतमानाधिपीठः ।
( १ ) तत्रैव छन्दसा छन्दोन्तरैर्वा परिवर्तयेत् - इति ख० पुस्तके पाठः .. ।