This page has been fully proofread once and needs a second look.

स्तबक: २ ]
 
शब्दभेदजैर्यथा-
यथा-
-
 
काव्यकल्पलतावृत्तिः ।
 
तरुः गिरिः यथा षण्मुखः शङ्करः ।

यत्र तत्र स्वामिन् अहो कुतः भगवन् आगतः ॥
 

 
शब्दभेदजैर्यथा--
 
वर्णानेकस्य शब्दस्य सर्वान् नवनवस्वरैः ॥ २७ ॥

 
संयोज्य जनिता ये ते शब्दाः स्युः शब्दभेदजाः ।

अनुप्रासेषु चित्रेषु सोपयोगा भवन्त्यमी ॥ २८ ॥
 

 
यथा-
 
करः क्रूरः किरिः कीरः क्रूरः कुरस्कोरकौ ।

कुर्कुरः कर्करः कारा शंराका रङ्कोऽङ्कुरः करी ॥

 
रिरी रोरौ रिराकारः करीराकररङ्कुकाः ।

का कके किककङ्कोककारकोका ऽङ्ककेकरा: ॥
 
राः ॥
 
पुनरुपायान्तरमाह --
 
--
 
कथापुरादिसर्वार्थदिनकृत्यादिवर्णनैः
 

 
लोकानां दृष्टचेष्टाभिः छन्दोऽभ्यासं समर्थयेत् ॥ २९ ॥

 
कथा रामायणभारतादयः । कथाभिर्यथा-
-
 
अस्त्ययोध्या पराऽयोध्या पुरी स्वर्ग पुरीसमा ।

तस्यां दशरथो राजा समभूदूद् भूरिविक्रमः ॥

 
तनया: समजायन्त चत्वारस्तस्य भूपतेः ।

रामो. लक्ष्मणभरतशत्रुघ्न इति नामभिः ॥ इत्यादि ।
 

 
पुरादिवर्णनैर्यथा-
-
 
AUTOE
 
-
 
पुरनृपकुमारमन्त्रिप्रयाणरणदूतजलधिवनगिरयः ।

रविचन्द्रोदयपरिणयऋतुमधुजलकेलिरतविरहाः ॥

 
ध्वस्तध्वान्तभरं ([^) ]रत्नवेश्मविस्मेररश्मिभिः ।

राजधानी दिनस्येव तत्पुरं द्योतते सदा ॥ इत्यादि ।

 
सर्वार्थवर्णनैः, ये केपि पदार्था दृग्गोचरीभवन्ति ते वर्ण्याः, यथा-
-
 
स्थाली भावि विशालेयं सिद्धान्त्रपरिपूरिता ।

भूरिकर्पूरसौरम्भ्यैरम्भोभिः शोभते घटः ॥
 

 
दिनकृत्यवर्णनैर्यथा-
-
 
अयमुद्यमवान् ब्राझेह्मे मुहूर्ते निद्रयोज्झितः ।

धःद्यः शय्यां परित्यज्य चक्रे देवगुरुस्मृतिम् ॥

 
नमस्कारपरावर्त परायणमनाः क्षणम् ।
 

स्थित्वा बाह्यभुवं गत्वा देहचिन्तां विनिर्ममे ॥

 
सदनं पुनरागत्य विदधे दन्तधावनम् ।
 

स्नानमाधाय शुद्धात्माऽऽनर्च देवं जगद्गुरुम् ॥ इत्यादि ।
 
(

 
[^
)] ध्वस्तध्वान्तभरा - --इति क० पुस्तके पाठः ।
 
-
 

२ का०