This page has been fully proofread once and needs a second look.

अभ्रंलिहगृहव्यूहचन्द्रशालाविलासिभिः ।
नरनारीगणैर्मन्ये मर्त्यलोको द्युलोकगः ॥
 
उपमानैः समस्या पूर्यते । उपमानानि सदृशवस्तूनि । यथा--
 
जन्म स्तोत्रे जिनेशस्य मेरौ देवाङ्गनामुखैः ।
परितः स्फुरितैः शङ्के 'शतचन्द्रं नभस्तलम्' ॥
 
इत्यादि । तद्गुणाधिक्येनेति चतुःश्लोकोपरि शेषपदम् । पदार्थस्य गुणादधिकगुण-
पदार्थेन समस्या पूर्यते । यथा--
 
त्रैलोक्ये स्फुरतः शुद्धयशसः पुरतस्तव ।
सोऽपि विश्वम्भरानाथ ! 'सोमः श्यामपुर्बभौ' ।
 
तद्गुणाधिकं यशः ॥
 
त्वद्गाम्भीर्यगुणस्याग्रे समुद्रो गोष्पदायते ।
सन्मानससरोजान्तर्गगर्न भ्रमरायते ॥
 
एवमौचित्येन तद्गुणाधिकत्वमारोप्यम् ॥
 
श्रीमद्वायडगच्छवारिधिविधोः पादारविन्दद्वये
येन श्रीजिनदत्तसूरिसुगुरोः शृङ्गारभृङ्गायितम् ।
स श्वेताम्बरमौलिरत्नममरः श्रीवीरतीर्थङ्कर-
प्रह्वात्माऽकृत काव्यकल्पलतिकावृत्तिं सतां संमताम् ॥
 
सिक्तेयमुद्धृतैः शास्त्राब्धिभ्य: सारसुधारसैः ।
काव्यकल्पलताऽऽकल्पं तनोतु सुमनोमुदम् ॥
 
काव्यमेव परब्रह्मास्वादसोदरशर्मदम् ।
आलोकं पालयामास कालिदासकवेर्यशः ॥
 
वाल्मीकिव्यासयोर्विश्वे विश्वदिङ्मूलकूलगा ।
कल्पान्तोल्लङ्घिनी कीर्तिः काव्यादेव विजृम्भते ॥
 
इति श्रीजिनदत्तसूरिशिष्यमहाकविश्रीमदमरचन्द्रविरचितायां काव्यकल्पलता-
कविशिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः सप्तमः समाप्तः ॥
 
सम्पूर्णश्चाऽयं चतुर्थोऽर्थसिद्धिप्रतानो ग्रन्थश्च ।
--------------------------------------
 
वन्दामहे मुदा शैवचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥