This page has been fully proofread once and needs a second look.

१५४
 
अमरचन्द्रयतिकृता-
अभ्रंलिहगृहव्यूहचन्द्रशालाविलासिभिः ।

नरनारीगणैर्मन्ये मर्त्यलोको धुद्युलोकगः ॥
 

 
उपमानैः समस्या पूर्यते । उपमानानि सदृशवस्तूनि । यथा -
 
-
 
--
 
जन्म स्तोत्रे जिनेशस्य मेरोरौ देवाङ्गनामुखैः ।
 
[ प्रतानः ४-
wimy
 

परितः स्फुरितैः शङ्के 'शतचन्द्रं नभस्तलम्' ॥
 

 
इत्यादि । तद्गुणाधिक्येनेति चतुःश्लोकोपरि शेषपदम् । पदार्थस्य गुणादधिकगु-
-
पदार्थेन समस्या पूर्यते । यथा-
-
 
त्रैलोक्ये स्फुरतः शुद्धयशसः पुरतस्तव ।
 

सोऽपि विश्वम्भरानाथ ! 'सोमः श्यामपुर्बभौ' ।

 
तद्गुणाधिकं यशः ॥
 
त्वा

 
त्वद्गा
म्भीर्यगुणस्याग्रे समुद्रो गोष्पदायते ।

सन्मानससरोजान्तर्गगर्न भ्रमरायते ॥
 

 
एवमौचित्येन तद्गुणाधिकत्वमारोष्यम् ॥

प्यम् ॥
 
श्रीमद्वायडगच्छवारिधिविधोः पादारविन्द्रद्वये

येन श्रीजिनदत्तसूरिसुगुरोः शृङ्गारभृङ्गायितम् ।

स श्वेताम्बरमौलिरत्नममरः श्रीवीरतीर्थङ्कर-

प्रहाह्वात्माऽकृत काव्यकल्पलतिकावृत्तिं सतां संमताम ॥
म् ॥
 
सिक्तेयमुद्धृतैः शास्त्राब्धिभ्य: सारसुधारसैः ।

काव्यकल्पलताऽऽकल्पं तनोतु सुमनोमुदम् ॥

 
काव्यमेव परब्रह्मास्वादसोदरशर्मदम् ।

आलोकं पालयामास कालिदासकवेर्यशः ॥

 
वाल्मीकिव्यासयोर्विश्वे विश्वदिङ्मूलकूलगा ।

कल्पान्तोल्लङ्गिघिनी कीर्तिः काव्यादेव विजृम्भते ॥
 

 
इति श्रीजिनदत्तसूरिशिष्यमहाकविश्रीमदमरचन्द्रविरचितायां काव्यकल्पलता-
कवि

कवि
शिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः सप्तमः समाप्तः ॥
 

 
सम्पूर्णश्चाऽयं चतुर्थोऽर्थसिद्धिप्रतानो ग्रन्थश्च ।
 

--------------------------------------
 
वन्दामहे मुदा शैवचण्डकोदण्डखण्डनम् ।

जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥