2023-04-12 04:25:00 by ambuda-bot
This page has not been fully proofread.
१५४
अमरचन्द्रयतिकृता-
अभ्रंलिहगृहव्यूहचन्द्रशालाविलासिभिः ।
नरनारीगणैर्मन्ये मर्त्यलोको धुलोकगः ॥
उपमानैः समस्या पूर्यते । उपमानानि सदृशवस्तूनि । यथा -
-
जन्म स्तोत्रे जिनेशस्य मेरो देवाङ्गनामुखैः ।
[ प्रतानः ४-
wimy
परितः स्फुरितैः शङ्के 'शतचन्द्रं नभस्तलम्' ॥
इत्यादि । तद्गुणाधिक्येनेति चतुःश्लोकोपरि शेषपदम् । पदार्थस्य गुणादधिकगु-
णपदार्थेन समस्या पूर्यते । यथा-
त्रैलोक्ये स्फुरतः शुद्धयशसः पुरतस्तव ।
सोऽपि विश्वम्भरानाथ ! 'सोमः श्यामपुर्बभौ' ।
तद्गुणाधिकं यशः ॥
त्वाम्भीर्यगुणस्याग्रे समुद्रो गोष्पदायते ।
सन्मानससरोजान्तर्गगर्न भ्रमरायते ॥
एवमौचित्येन तद्गुणाधिकत्वमारोष्यम् ॥
॥
श्रीमद्वायडगच्छवारिधिविधोः पादारविन्द्रद्वये
येन श्रीजिनदत्तसूरिसुगुरोः शृङ्गारभृङ्गायितम् ।
स श्वेताम्बरमौलिरत्नममरः श्रीवीरतीर्थङ्कर-
प्रहात्माऽकृत काव्यकल्पलतिकावृत्तिं सतां संमताम ॥
सिक्तेयमुद्धृतैः शास्त्राब्धिभ्य: सारसुधारसैः ।
काव्यकल्पलताऽऽकल्पं तनोतु सुमनोमुदम् ॥
काव्यमेव परब्रह्मास्वादसोदरशर्मदम् ।
आलोकं पालयामास कालिदासकवेर्यशः ॥
वाल्मीकिव्यासयोर्विश्वे विश्वदिङ्मूलकूलगा ।
कल्पान्तोल्लङ्गिनी कीर्तिः काव्यादेव विजृम्भते ॥
इति श्रीजिनदत्तसूरिशिष्यमहाकविश्रीमदमरचन्द्रविरचितायां काव्यकल्पलता-
कवि शिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः सप्तमः समाप्तः ॥
सम्पूर्णऽयं चतुर्थोऽर्थसिद्धिप्रतानो ग्रन्थश्च ।
वन्दामहे मुदा शैवचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥