This page has been fully proofread once and needs a second look.

कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् ।
किं कुर्यात् कातरो युद्धे 'मृगात् सिंह: पलायते' ॥
 
इत्यादि । क्षयसमासविभिन्नमाध्यात् समस्यायां यत्साध्यं पदं भवति तत् क्षय-
समासेन विभिन्नं क्रियते, तदा सर्वापि समस्या सिध्यति । यथा--
 
कर्पूरपूरच्छविवादविद्यासंवावदूकद्युतिशुभ्रिताभ्रे ।
इन्दोर्नृपद्वेषितमोवितान 'सूर्योदये रोदिति चक्रवाकी' ॥
 
सूर्यं यावन्नृपसम्बोधनम् ॥
 
श्रीहट्टकेश्वरजगत्प्रलयग्रहास्त
पाथोधिमन्थसमयप्रतिबिम्बभावैः ।
सङ्ग्रामचक्रिपुरचन्दनशस्त्रपातै-
श्चण्डीशसद्मगुरुताऽऽपि रथोपमानैः ॥ २९० ॥
 
एकै कभुवनेऽन्यभुवनानामवतारः । पूर्वं पाताले श्रीहरकेश्वरस्वामिनमस्कारेण
स्वर्लोकावतारः । जगत्प्रलयेन मर्त्यलोकावतारः । ग्रहास्तेन नभोलोकावतारः । यथा--
 
श्रीहट्टकेश्वरस्वामिनमस्करणकारणात् ।
सुरेन्द्रादिभिरायातैः 'स्वर्गः पातालमाययौ' ॥
 
कदाचिच्चारभेदेन क्रमादस्तमुपागतैः ।
ग्रहैः सम्भाव्यते नूनं 'पातालं प्रययौ नभः' ॥
 
अथ पृथिव्यां पाथोधिमन्थनसमयेन स्वर्गपाताल्योरवतरणं प्रतिबिम्बभावेन
नभोलोकावतरणं विधेयम् । यथा--
 
समुद्रमथनारम्भे मिलितैरमरादिभिः ।
पृथिव्यां स्वर्गपाताले दृश्येते स्फुटमागते ॥
 
दर्पणप्रतिमोल्लासिजलपूरसरोम्बरे ।
प्रतिबिम्बच्छलादेतद् 'भुवि व्योम समागतम्’ ॥
 
अथ नभसि संग्रामेण स्वर्गस्य, हरिश्चन्द्रचक्रिपुरेण मर्त्यलोकस्य, चन्दनशस्त्रपातै-
रहिलोकस्याऽवतरणं विधेयम् । यथा--
 
रणप्रवणवीराणां विलोकनकुतूहलात् ।
समायातैः सुरेन्द्राद्: 'स्वर्गो नभसि दृश्यते' ॥
 
आकाशान्तरसंचारिहरिश्चन्द्रपुरीच्छलात् ।
भौमस्य मिलनायेव 'जगाम जगतीं नभः’ ॥
 
श्रीरामरावणरणे कपिमण्डलेन शस्त्रीकृतैर्मलयद्रुमचक्रवालैः ।
रिङ्गद्भुजङ्गमकुलैः परितः स्फुरद्भिः 'सम्भाव्यते नभसि सर्पपुरं प्रसर्पत्' ॥
अथ स्वर्गे चण्डीशाभरणरूपेण भुजङ्गमलोकस्य, सद्मगुरुताभिर्मर्त्यलोकस्याऽवतरणं
विधेयम् । नभोलोकस्तत्रैवासीत् । यथा--
 
श्रीकण्ठकण्ठदोर्दण्डमण्डनैरहिमण्डलैः ।
अयं भुजगलोकोऽपि स्वर्लोककलिताश्रयः ॥
 
२० का० क०