This page has been fully proofread once and needs a second look.

स्तवकः ७ ]
 
काव्यकल्पलतावृत्तिः ।
 
कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् ।

किं कुर्यात् कातरो युद्धे 'मृगात् सिंह: पलायते' ॥

 
इत्यादि । क्षयसमासविभिन्नमाध्यात् समस्यायां यत्साध्यं पदं भवति तत् क्षय-

समासेन विभिन्नं क्रियते, तदा सर्वापि समस्या सिध्यति । यथा -
--
 
कर्पूरपूरच्छविवादविद्यासंवावदूकद्युतिशुश्भ्रिताने ।
भ्रे ।
इन्दोर्नृपद्वेषितमोवितान 'सूर्योदये रोदिति चक्रवाकी' ॥

 
सूर्यं यावन्नृपसम्बोधनम् ॥

 
श्रीहट्टकेश्वरजगत्प्रलयग्रहास्त

पाथोधिमन्थसमयप्रतिबिम्बभावैः ।

सङ्ग्राम चक्रिपुरचन्द नशस्त्रपातै-
१५३
 

श्
चण्डीशसद्मगुरुताऽऽपि रथोपमानैः ॥ २९० ॥
 

 
एकै कभुवनेऽन्यभुवनानामवतारः । पूर्वं पाताले श्रीहरकेश्वरस्वामिनमस्कारेण

स्वर्लोकावतारः । जगत्प्रलयेन मर्त्यलोकावतारः । ग्रहास्तेन नभोलोकावतारः । यथा -
 
--
 
श्रीहट्टकेश्वरस्वामिनमस्करणकारणात् ।

सुरेन्द्रादिभिरायातैः 'स्वर्ग:गः पातालमाययौ' ॥

 
कदाचिच्चारभेदेन क्रमादस्तमुपागतैः ।
 

ग्रहै:हैः सम्भाव्यते नूनं 'पातालं प्रययौ नभः' ॥
 

 
अथ पृथिव्यां पाथोधिमन्नसमयेन स्वर्गपाताल्योरवतरणं प्रतिबिम्बभावेन

नभोलोकावतरणं विधेयम् । यथा -
 
--
 
समुद्रमथनारम्भे मिलितैरमरादिभिः ।
 

पृथिव्यां स्वर्गपाताले दृश्येते स्फुटमागते ॥

 
दर्पणप्रतिमोल्लासिजलपूरसरोम्बरे ।
 

प्रतिबिम्बच्छलादेतद् 'भुवि व्योम समागतम्
 
’ ॥
 
अथ नभसि संग्रामेण स्वर्गस्य, हरिश्चन्द्रचक्रिपुरेण मर्त्यलोकस्य, चन्दनशस्त्रपातै-

रहिलोकस्याऽवतरणं विधेयम् । यथा -
 
--
 
रणप्रवणवीराणां विलोकनकुतूहलात् ।

समायातैः सुरेन्द्रायैद्: 'स्वर्गो नभसि दृश्यते' ॥

 
आकाशान्तरसंचारिहरिश्चन्द्रपुरीच्छलात् ।
 

भौमस्य मिलनायेव 'जगाम जगतीं नभः
’ ॥
 
श्रीरामरावणरणे कपिमण्डलेन शस्त्रोरीकृतैर्मलयद्रुमचक्रवालैः ।
 

रिङ्गद्भुजङ्गमकुलैः परितः स्फुरद्भिः 'सम्भाव्यते नभसि सर्पपुरं प्रसर्पत्' ॥

अथ स्वर्गे चण्डीशाभरणरूपेण भुजङ्गमलोकस्य, सद्मगुरुताभिर्मर्त्यलोकस्याऽवतरणं

विधेयम् । नभोलोकस्तत्रैवासीत् । यथा -
 
-
 
--
 
श्रीकण्ठकण्ठदोर्दण्डमण्डनैर
हिमण्डलैः ।
 

अयं भुजगलोकोऽपि स्वलेकिर्लोककलिताश्रयः ॥
 

 
२० का० क०