This page has been fully proofread once and needs a second look.

अगस्तिमुनिनिष्पीतनिःशेषजलमण्डलात् ।
अहर्पतिमहःशुष्कात् 'समुद्राद्धूलिरुत्थिता' ।
 
इति चिन्तनीयम् ॥
 
वात्सल्यशोकमधुधातवियोगमादैः ॥ २८८ ॥
 
वात्सल्येन समस्या पूर्यते । यथा--
 
अतुच्छसृतवात्सल्यपिच्छलीभूतचेतसा ।
सोममूर्तिः क्षमी व्याघ्रो जनन्या मन्यते ध्रुवम् ॥
 
इत्याद्यूह्यम् । शोकेन, मधुना, घातेन, उन्मादेन समस्या पूर्यते । यतः शोक-
वियोगमादैर्व्याप्तः पुमानघटमानमपि जल्पति ॥
 
स्वप्नेन्द्रजालिकमतिभ्रम चित्रमाया
मन्त्रौषधीमणितपः पदभङ्गभावात् ।
शौर्योष्मवाञ्छितमनोगतिपुण्यदैव-
प्रश्नोत्तरक्षयसमासविभिन्नसाध्यात् ॥ २८९ ॥
 
स्वप्नेन समस्या सिद्य्िति । यतः स्वप्नेऽघटितमपि सर्वं घटते । यथा--
 
निद्रामुद्रापरिचयलवान्मुद्रितानन्तचिन्ता
चित्ते चित्ते निभृतममृतज्योतिषि म्लानधाम्नि ।
प्रातः स्वप्नेऽरुणकपिशितं प्राग्दिशैकोऽथ कस्मा-
दाकाशस्थं जलचरपदं दृष्टिहीनो ददर्श ॥
 
'अहो ज्योतिष्कलादक्ष ! मया स्वप्नेऽमुकं दृष्टं, त्वं विचारये'त्यादि कल्पनीयम् ।
इन्द्रजालेनाऽघटमानमपि सर्वं घटते । तथा मतिभ्रमेणापि सर्वं घटते ।
चित्रे विसदृशमपि लिखितं संभवति । 'अहो चित्रकृत् ! ईदृशं चित्रं चित्रये’ति वाक्यं
रचनीयम् । माययाऽपि विसदृशं सम्भाव्यम्। मणिमन्त्रौषधिप्रभावेन सर्वं साध्यते
यस्मादचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तपसाऽपि सर्वं साध्यते ।
 
'यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्’ ॥
 
इति, तपसाप्यघटमानं सर्वं घटते । पदभङ्गभावादपि समस्या पूर्यते । यथा--
'मृगात्सिंह: पलायते' । मृगमत्तीति मृगात् सिंहविशेषणम्, पलाय मांसाय, ते तव ।
 
अयं मृगः समायाति 'मृगात् सिंह: पलाय ते’ ।
ततो वेगात् पलायस्व त्वरितं त्वरितैः पदैः ॥
 
इत्याद्यूह्यम् । शौर्योष्मणा वाञ्छितेन मनोगत्या पुण्येनाऽघटमानमपि घटते ।
देवप्रसादेनाऽसाध्यमपि साध्यते ।
 
निःश्रीकोऽपि विभो ! विभातसमये पश्यत्यवश्यं मुदा
यस्ते पद्मसमानमाननमसौ स्यादिन्दिरामन्दिरम् ।
श्रीवामेय ! किमु स्तुमस्तव परं यस्य प्रसादाद्भुतै-
'र्मूको जल्पति संशृणोति बधिरः पङ्गुर्नरो नृत्यति’ ॥
 
इत्यादि । प्रश्नेन समस्या पूर्यते । यथा--