This page has not been fully proofread.

अमरचन्द्रपतिकृता-
अतिमहः
अतिमहःशुष्कात्
इति चिन्तनीयम् ॥
 
अगस्तिमुनिनिष्पीतनिःशेषजलमण्डलात् ।
शुष्कात् 'समुद्राडूलिरुत्थिता' ।
 
१५२
 
वात्सल्यशोकमधुधातवियोगमाः ॥ २८८ ॥
 
वात्सल्येन समस्या पूर्यते । यथा -
 
अतुच्छसृतवात्सल्यपिच्छलीभूतचेतसा ।
 
सोममृतिः क्षमी व्याघ्रो जनन्या मन्यते ध्रुवम् ॥
 
इत्याद्यूह्यम् । शोकेन, मधुना, घातेन, उन्मादेन समस्या पूर्यते । यतः शोक.
वियोगमादैर्व्याप्तः पुमानघटमानमपि जल्पति ॥
 
स्वप्नेन्द्रजालिकमतिभ्रम चित्रमाया.
 
मन्त्रौषधीमणितपः पदभङ्गभावात् ।
शौर्योष्मवाञ्छितमनेोगतिपुण्यदैव-
[ प्रतानः ४.
 
प्रश्नोत्तरक्षयसमासविभिन्नसाध्यात् ॥ २८१ ॥
 
स्वप्नेन समस्या सिद्धयति । यतः स्त्रप्नेऽघटितमपि सर्व घटते । यथा-
निद्रामुद्रापरिचयलवान्मुद्रितानन्तचिन्ता
 
चित्रो चित्ते निभृतममृतज्योतिषि म्लानधाम्नि ।
प्रातः स्वप्नेऽरुणकपिशितं प्राग्दिशैकोऽथ कस्मा-
दाकाशस्थं जलचरपदं दृष्टिहीनो ददर्श ॥
 
-
 
'अहो ज्योतिष्कलादक्ष ! मया स्वप्नेऽमुकं हृष्टं, त्वं विचारये' त्यादि कल्पनीयम् ।
इन्द्रजालेनाऽघटमानमपि सर्वं घटते । तथा मतिभ्रमेणापि सर्वं घटते ।
चित्रे विसदृशमपि लिखितं संभवति । 'अहो चित्रकृत् ! ईदृशं चित्रं चित्रयेति वाक्यं
रचनीयम् । माययाऽपि विसदृशं सम्भाव्यम्। मणिमन्त्रौषधिप्रभावेन सर्व साध्य
यस्मादचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तपसाऽपि सर्व साध्यते ।
 
'यद्दूरं यहुराराध्यं यच्च दूरे व्यवस्थितम् ।
 
तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ॥
 
इति, तपसाप्यघटमानं सर्वं घटते । पदभङ्गभावादपि समस्या पूर्यते । यथा-
'मृगात्सिंह: पलायते' । मृगमत्तीति मृगात् सिंहविशेषणम्, पलाय मांसाय, ते तव ।
अयं मृगः समायाति 'मृगात् सिंह: पलाय ते ।
 
निःश्रीकोऽपि विभो ! विभातसमये पश्यत्यवश्यं मुदा
यस्ते पद्मसमानमाननमसौ स्यादिन्दिरामन्दिरम् ।
श्रीवामेय ! किमु स्तुमस्तव परं यस्य प्रसादाद्भुतै-
'भृंको जल्पति संभृणोति बधिरः पर्नरो नृत्यति ॥
इत्यादि । प्रश्नेन समस्या पूर्यते । यथा -
 
ततो वेगात् पलायस्व त्वरितं त्वरितैः पदैः ॥
 
इत्याद्ययम् । शौर्योsमणा वाञ्छितेन मनोगत्या पुण्येनाऽघटमानमपि घटते ।
देवप्रसादेनाऽसाध्यमपि साध्यते ।