This page has been fully proofread once and needs a second look.

सन्ध्यया वर्णविपर्ययो यथा--
 
पूर्वभूधरशिरस्तटीगतः सान्ध्यरागपटलैः परावृतः ।
प्रेक्ष्यतेऽत्र रजनीमुखेऽधुना 'विद्रुमप्रतिमदीधितिर्बिधु:' ॥
 
अन्यवस्तूनां यथा--
 
कान्तकोपपरवामलोचनालोचनान्तविततारुणद्युतौ ।
सान्ध्यरागपटले सति क्षणं 'कज्जलं भवति कुङ्कुमोपमम् ॥
 
स्वर्णं सिन्दूरपूरश्रि कर्पूरं पद्मरागरुक् ।
जपाकुसमसङ्काशैः सन्ध्यारागभरैरभूत् ॥
 
अथ वर्णान्तरसङ्गाद्वस्तूनां वर्णविपर्ययः क्रियते । यथा--
 
शशिमुकुटललाटे शैलजागण्डपालीविगलितमृगनाभिव्यक्तघर्माम्बुसिक्तः ।
समजनि नरकारिश्यामलो यामिनीशः 'श्रयति मलिनसङ्गात्कश्मलत्वं न को वा’ ॥
 
मसृणघुसृणपङ्कप्रक्रियाप्राग्रजाग्रत्कुचकलशविलासैः कम्बुकुन्दोज्ज्वलोऽपि ।
समरुणदरुणत्वं कामिनीकण्ठहारो 'जगति भवति रागो रागिसङ्गान्न कस्य' ।
 
क्षितिधरपतिपुत्रीमौक्तिकव्यक्तिभङ्गीनिलयवलयमालाकान्तिजालावलीढः ।
हिमरुचिरुचिरासीन्नीलकण्ठस्य कण्ठो 'भवति विमलयोगान्निर्मलत्वं न कस्य’ ॥
 
एवमनया रीत्या सर्वत्राप्यूह्यम् ।
 
धर्मध्यानव्यसनरसिका स्पष्टमष्टाब्दयोगात्
केयं बाला पतितदशना पाण्डुरीभूतकेशा ।
भक्तिव्यक्तप्रणतशशभृत्पादजाग्रन्नखाग्रे
ज्योतिर्जालैस्त्रिदशतटिनीनीरधिक्कारधीरैः ॥
 
रङ्गेऽस्मिन् रङ्गदभ्रंलिहगृहवलभीवर्यवैदूर्यनिर्य--
ज्ज्योतिर्जातप्रपाता द्युतिकरविधुरीभूतशोभा विभूतिः ।
कालिन्दीकालकान्तिः समजनि रजनीजीवितव्याधिनाथो
'धत्ते को वा कलावानपि न हि मलिनासङ्गतः कश्मलत्वम्’ ॥
 
अहो राहुग्रहग्रस्तसमस्तोज्ज्वलमण्डलः ।
इन्दुः कज्जलबिन्दुश्रीर्हानिः कस्य न विप्लवे ॥
 
एवं सर्वत्रापि सङ्गवशाद्वर्णव्यतिक्रमो विधेयः ॥
 
दृष्टान्तबद्धयदिशब्दतया
 
द्वितीयवस्तुनिदर्शनं दृष्टान्तः, तद्वस्तुस्वभावादन्यस्मिन्नथें यदिशब्दे यदिशब्देन
संयुज्यते समस्या पूर्यते । यथा--
 
प्रतीच्यां यदि मार्तण्डः समुदेति स्फुरत्करः ।
तदा सञ्जायते नून'मग्निस्तुहिनशीतलः' ॥
 
पुराणैः
 
एवं सर्वत्र । पुराणमुनिराजचरितैः समस्या पूर्यते । यथा--