This page has been fully proofread once and needs a second look.

स्तबकः ७ ]
 
काव्यकल्पलतावृत्तिः ।
 
सन्ध्यया वर्णविपर्ययो यया -
 
था--
 
पूर्वभूधर शिरस्तटीगतः सान्ध्यरागपटलैः परावृतः ।

प्रेक्ष्यतेऽत्र रजनीमुखेऽधुना 'विद्रुमप्रतिमदीधितिबिंर्बिधु:' ॥

 
अन्यवस्तूनां यथा-
-
 
कान्तकोपपरवामलोचनालोचनान्तविततारुणद्युतौ ।
 

सान्ध्यरागपले सति क्षणं 'कज्जलं भवति कुङ्कुमोपमम् ॥
 
स्वर्ण

 
स्वर्णं
सिन्दूरपूरश्रि कर्पूरं पद्मरागरुक ।
क् ।
जपाकुसमा मसङ्काशैः सन्ध्यारागभरैरभूत् ॥
 

 
अथ वर्णान्तरसङ्गाद्वस्तूनां वर्णविपर्ययः क्रियते । यथा-
-
 
शशिमुकुटललाटे शैलजागण्डपालीविगलितमृगनाभिव्यक्तर्माम्बुसिक्तः ।

समजनि नरकारिश्यामलो यामिनीशः 'श्रयति मलिनसङ्गात्कश्मलत्वं न को वा

 
मसृणघुसृणपङ्कप्रक्रियाप्राग्रजाग्रत्कुचकलशविलासैः कम्बुकुन्दोज्ज्वलोऽपि ।

समरुणदरुणत्वं कामिनीकण्ठहारो 'जगति भवति रागो रागिसङ्गान्न करूस्य' ।

 
क्षितिधरपतिपुत्रीमौक्तिकव्यक्तिभङ्गी निलयवलयमालाकान्तिजालावलीढः ।

हिमरुचिरुचिरासोसीन्नीलकण्ठस्य कण्ठो 'भवति विमलयोगान्निर्मलत्वं न कस्य

 
एवमनया रीत्या सर्वत्राप्यूह्यम् ।
 

 
धर्मध्यानव्यसनरसिका स्पष्टमष्टाब्दयोगात्
 

केयं बाला पतितदशना पाण्डुरीभूतकेशा ।

भक्तिव्यक्त प्रणतशशभृत्पादजाग्रन्नखाग्रे
 

ज्योतिर्जालैस्त्रिदशतटिनीनीर धिक्कारधीरैः ॥

 
रङ्गेऽस्मिन् रङ्गदभ्रंलिहगृहवलभोभीवर्यवैडूदूर्यनिर्य-
-
ज्ज्योतिर्जातप्रपाता द्युतिकरविधुरीभूशोभा विभूतिः ।

कालिन्दीकालकान्तिः समजनि रजनीजीवितव्याधिनाथो
 

'धत्ते को वा कलावानपि न हि मलिनासङ्गतः कश्मलत्वम्
 

 
अहो राहुग्रहग्रस्तसमस्तोज्ज्वलमण्डलः ।
 

इन्दुः कज्जलबिन्दुश्रीर्हानिः कस्य न विप्लवे ॥

 
एवं सर्वत्रापि सङ्गवशाद्वर्णव्यतिक्रमो विधेयः ॥
 
FIXED
 
प्रतीच्यां यदि मार्तण्ड: समुदेति स्फुरत्करः ।
तदा सब्जायते नून 'मग्निस्तुहिनशीतलः ॥
 

 
दृष्टान्तबद्धयदिशब्दतथा
 
या
 
द्वितीयवस्तुनिदर्शनं दृष्टान्तः, तद्वस्तुस्वभावादन्यस्मिन्नथें यदिशब्दे यदिशब्देन

संयुज्यते समस्या पूर्यते ।
 
यथा-
१५१
 
-
 
प्रतीच्यां यदि मार्तण्डः समुदेति स्फुरत्करः ।
तदा सञ्जायते नून'मग्निस्तुहिनशीतलः' ॥
 
पुराणैः
 

 
एवं सर्वन्नत्र । पुराणमुनिराजचरितैः समस्या पूर्यते । यथा-
windeclioph
 
-