2023-05-12 14:17:47 by manu_css
This page has been fully proofread once and needs a second look.
पूर्वाद्रौ रत्नभित्यन्तर्जाताद्रिप्रतिबिम्बतः ।
शङ्कयते शक्रकान्ताभिः किमुदेति रविद्वयम ॥ २८६ ॥
यमुनाह्रदझम्पायामधोवक्त्रे जगन्निधौ ।
तदा सम्भाव्यते नूनं स्वर्गोपरि मही बभौ’ ॥ २८७ ॥
चन्द्रान्धकाररविकीर्तिकुकीर्तिसन्ध्या-
रागादिसङ्गकृतवर्णविपर्ययेण ।
कृष्णरक्तपीतनीलादयो वर्णाश्चन्द्रेण श्वेताः क्रियन्ते । यथा--
पर्णोद्गमहिमद्योतद्योतिविद्योतितोऽभितः ।
कैलासगिरिलङ्काशः 'काशते विन्ध्यभूधरः' ॥
जपापुष्पं जातिसुमं सुवर्णं रजतप्रभम् ।
सुधाकरकरस्पर्शा'न्मषी चन्दनवद्बभौ' ॥
रक्तपीतश्वेतादयो वर्णा अन्धकारेण कृष्णाः क्रियन्ते । यथा--
कैलासो विन्ध्यसङ्काशः कर्पूरः कज्जलप्रभः ।
जपा तापिच्छगुच्छश्रीरन्धकारैर्विनिर्ममे ॥
कृष्णश्वेतादयो वर्णा बालार्केण सन्ध्यार्केण रविणा वा रक्ताः क्रियन्ते । यथा--
कज्जलं कुसुमच्छायं जातीपुष्पं जपासुमम् ।
सुवर्णं पद्मरागश्रि प्रभातार्कप्रभावृतम् ॥
अनया रीत्या सर्वत्राऽप्यौचित्येन वर्णविपर्यययः क्रियते । यदि पुनश्चन्द्रान्धकार-
रवीणामेव वर्णविपर्ययः क्रियते तदा कीर्त्तिकुकीर्तिसन्ध्यादिभिरेतेषामेव वर्णविपर्ययः
क्रियते । यदाऽन्यवस्तूनामपि चन्द्रादिभिरेव तैर्वर्णविपर्ययः क्रियते । यथा--
स्वर्धुनीसलिलसन्निभस्फुरत्तावकीननवकीर्तिमण्डलैः ।
विस्तृतैस्त्रिजगति क्षमापते ! 'शीतरश्मिरिव वीक्ष्यते रविः’ ॥
अन्यवस्तूनां यथा--
मेदिनीदयित ! तावकैर्भृशं सङ्घशः समुदयैः समुच्छ्रितैः ।
क्षीरनीरनिधिसोमकोमलैः 'कज्जलं रजतसन्निभं बभौ’ ॥
हिमाद्रिसदृशो मेरुः कुङ्कुमं शशिसन्निभम् ।
भूमीधव ! भवत्कीर्त्या शोभिते भुवनत्रये ॥
कुकीर्त्या यथा--
भूमिपाल ! भवदीयविद्विषन्मेदिनीपतिकुकीर्तिपङ्क्तिभिः ।
प्रावृषेण्यजलवाहकान्तिभिः 'श्यामलो जयति यामिनीपतिः’ ॥
अन्यवस्तुनामपि यथा--
मेदिनीदयित ! तावकद्विषत्संविसारिकुयशःकदम्बकैः ।
अन्धकारनिकरैरिवोदितैः 'कुङ्कुमं जयति कज्जलोपमम्’ ॥
हिमाद्रिर्विन्ध्यबन्धुश्री: स्वर्णं मरकतप्रभम् ।
महीधव ! तव द्वेषिकुकीर्तिप्रसरैर्बभौ ॥