This page has been fully proofread once and needs a second look.

१५०
 
अमरचन्द्रयतिकृता-
पूर्वाद्रौ रत्नभित्यन्तर्जाताद्विरिप्रतिविबिम्तः ।
 

शङ्कयते शक्रकान्ताभिः किमुदेति रविद्वयम ॥ २६ ॥

 
यमुनाहइह्रदझम्पायामधोवक्त्रे जगन्निधौ ।
 

तदा सम्भाव्यते नूनं स्वर्गोपरि मही बभौ' ॥ २८७ ॥

 
चन्द्रान्धकार रवि रविकीर्तिकुकीर्तिसन्ध्या-

रागादिसङ्गकृतवर्णविपर्ययेण ।
 
IAR
 
-
 

 
कृष्णरक्तपीवनौतनीलादयो वर्णाश्चन्द्रेण श्वेताः क्रियन्ते । यथा-
-
 
पर्णोद्महिमद्योतद्योतिविद्योतितोऽभितः ।
 

कैलासगिरिलङ्काश:शः 'काशते विन्ध्यभूधर : रः' ॥

 
जपापुष्पं जातिष्ठसुमं सुवर्णं रजतप्रभम् ।

सुधाकरकरस्पर्शा 'न्मषी चन्दनवद्भौ' ॥
 
[ प्रतानः ४-

 
रक्तपीतश्वेतादयो वर्णा अन्धकारेण कृष्णाः क्रियन्ते । यथा-
-
 
कैलासो विन्ध्यसङ्काशः कर्पूरः कज्जलप्रभः ।

जपा तापिच्छगुच्छश्री रन्धकारै र्विनिर्ममे ॥
 

 
कृष्णश्वेतादयो वर्णा बालार्केण सन्ध्याकंर्केण रविणा वा रक्ताः क्रियन्ते । यथा -
--
 
कज्जलं कुमुसुमच्छायं जातीपुष्पं जपासुमम् ।
 

सुवर्णं पद्मरागश्रि प्रभातार्कप्रभावृतम् ॥
 

 
अनया रीत्या सर्वत्राऽप्यौचित्येन वर्णविपर्यययः क्रियते । यदि पुनश्चन्द्रान्धकार-

रवीणामेव वर्णविपर्ययः क्रियते तदा कीर्त्तिकुकीर्तिसन्ध्यादिभिरेतेपाषामे वर्णविपर्ययः

क्रियते । यदाऽन्यवस्तूनामपि चन्द्रादिभिरेव तैर्वर्णविपर्ययः क्रियते । यथा-
-
 
स्वर्धुनीसलिसन्निभस्फुरत्तावकी ननवकीर्तिमण्डलैः ।
 

विस्तृतैस्वित्रिजगति क्षमापते ! 'शीतरश्मिरिव वीक्ष्यते रविः
’ ॥
 
अन्यवस्तूनां यथा-
-
 
मेदिनीदयित ! तावकैर्भृशं सङ्घशः समुदयैः समुच्छ्रितैः ।

क्षीरनीरनिधिसोमकोमलैः 'कज्जलं रजतसन्निभं बभौ
 
’ ॥
 
हिमाद्विरिसदृशो मेरुः कुङ्कुमं शशिसन्निभम् ।

भूमोमीधव ! भवत्कीर्त्या शोभिते भुवनत्रये ॥

 
कुकीर्त्या यथा -
 
--
 
भूमिपाल ! भवदीयविद्विषन्मेदिनीपतिकुकीर्तिपङ्क्तिभिः ।

प्रावृषेण्यजलवाहकान्तिभिः 'श्यामलो जयति यामिनीपतिः
’ ॥
 
अन्य वस्तुनामपि यथा -
 
--
 
मेदिनीदयित ! तावकद्विषत्संविसारिकुयशः कदम्बकैः ।

अन्धकारनिकरैरिवोदितैः 'कुङ्कुमं जयति कज्जलोपमम् ॥'
’ ॥
 
हिमाद्विरिर्विन्ध्यबन्धुश्री: स्वर्णं मरकतप्रभम् ।

महीधव ! तव द्वेषिकुकीर्तिप्रसरैर्बभौ #1
 
-