This page has not been fully proofread.

१५०
 
अमरचन्द्रयतिकृता-
पूर्वाद्रौ रत्नभित्यन्तर्जाताद्विप्रतिविम्वतः ।
 
शङ्कयते शक्रकान्ताभिः किमुदेति रविद्वयम ॥ २६ ॥
यमुनाहइझम्पायामधोवक्त्रे जगन्निधौ ।
 
तदा सम्भाव्यते नूनं स्वर्गोपरि मही बभौ' ॥ २८७ ॥
चन्द्रान्धकार रवि कीर्तिकुकीर्तिसन्ध्या-
रागादिसङ्गकृतवर्णविपर्ययेण ।
 
IAR
 
-
 
कृष्णरक्तपीवनौलादयो वर्णाश्चन्द्रेण श्वेताः क्रियन्ते । यथा-
पर्णोद्रमहिमद्योतद्योतिविद्योतितोऽभितः ।
 
कैलासगिरिलङ्काश: 'काशते विन्ध्यभूधर : ' ॥
जपापुष्पं जातिष्ठमं सुवर्ण रजतप्रभम् ।
सुधाकरकरस्पर्शा 'न्मषी चन्दनवद्वभौ' ॥
 
[ प्रतानः ४-
रक्तपीतश्वेतादयो वर्णा अन्धकारेण कृष्णाः क्रियते । यथा-
कैलासो विन्ध्यसङ्काशः कर्पूरः कज्जलप्रभः ।
जपा तापिच्छगुच्छश्री रन्धकारै विनिर्ममे ॥
 
कृष्णश्वेतादयो वर्णा बालार्केण सन्ध्याकंण रविणा वा रक्ताः क्रियन्ते । यथा -
कज्जलं कुमुमच्छायं जातीपुष्पं जपाठमम् ।
 
सुवर्ण पद्मरागश्रि प्रभातार्कप्रभावृतम् ॥
 
अनया रीत्या सर्वत्राऽप्यौचित्येन वर्णविपर्यययः क्रियते । यदि पुनश्चन्द्रान्धकार-
रवीणामेव वर्णविपर्ययः क्रियते तदा कीर्त्तिकुकीर्तिसन्ध्यादिभिरेतेपामेच वर्णविपर्ययः
क्रियते । यदाऽन्यवस्तूनामपि चन्द्रादिभिरेव तैर्वर्णविपर्ययः क्रियते । यथा-
स्वर्धुनीसलिसन्निभस्फुरत्तावकी ननवकीर्तिमण्डलैः ।
 
विस्तृतस्विजगति क्षमापते ! 'शीतरश्मिरिव वीक्ष्यते रविः ॥
अन्यवस्तूनां यथा-
मेदिनीदयित ! तावकैर्भृशं सङ्घशः समुदयैः समुच्छ्रितैः ।
क्षीरनीरनिधिसोमकोमलैः 'कज्जलं रजतसन्निभ बभौ ॥
 
हिमाद्विसदृशो मेरुः कुङ्कुमं शशिसन्निभम् ।
भूमोधव ! भवत्कीर्त्या शोभिते भुवनत्रये ॥
कुकी यथा -
 
भूमिपाल ! भवदीयविद्विषन्मेदिनीपतिकुकीर्तिपङ्क्तिभिः ।
प्रावृषेण्यजलवाहकान्तिभिः 'श्यामलो जयति यामिनीपतिः ॥
अन्य वस्तुनामपि यथा -
 
मेदिनीदयित ! तावकद्विषत्संविसारिकुयशः कदम्बकैः ।
अन्धकारनिकरैरिवोदितैः 'कुङ्कुमं जयति कज्जलोपमम् ॥'
हिमाद्विविन्ध्यबन्धुश्री: स्वर्ण मरकतप्रभम् ।
महीधव ! तव द्वेषिकुकीर्तिप्रसरैर्बभौ #1
 
-