This page has been fully proofread once and needs a second look.

स्तबक: ७ ]
 
काव्य कल्पलतावृत्तिः ।
 
स्थूलोन्नतोऽपि परमाम्बरवर्तमानघाधावद्विमान चरखेचरकामिनीनाम् ।

अभ्यागतो नयनवर्त्मनि सत्यमेव 'शैलो बिभर्ति परमाणुसमत्वमेपः
’ ॥
 
यतो दूरस्थितः पदार्थो गुरुरपि सुसूक्ष्म इव भासते । गुरुभिर्यथा-
-
 
कल्पान्तकालधरणीधरणप्रवृद्धकोलाधिराजतनुमानविलोकनेन ।
 

'शैलो बिभर्ति परमाणुसमत्वमेष नो कस्य लाघवमहो गुरुसन्निधाने ॥

 
इत्यादिगुरुतरपदार्थैर्गुरुपदार्थस्य लघुता विधेया । एवं रीतित्रयमध्याद्यत्र या रीति-

रौचित्याद् घटते तत्र तया रीत्या लघुता विधेया ॥
 

 
नीरादिषु प्रतिशरीरवशेन युग्मम्
 
१४९
 

 
नीरदर्पणमणिभूमिप्रभृतिषु प्रतिबिम्बवशेन एकमपि वस्तु युग्मरूपं भवति । यथा -
-
 
पश्चिमाद्रेर्मणिशिरःक्रान्ते पूर्वादिद्रिगे रखौ ।
 
वौ ।
लोकैशिर्विशङ्क्यते किं भोः 'समुदेति रविद्वयम्' ॥
 

 
कृष्णेन बिम्बितवशेन च वैपरीत्यम् ॥ २८० ॥
 

 
अधोमुखीकृतकृष्णेन प्रतिबिम्बितेन च वैपरीत्यं कार्यम् । यथा -
-
 
कालियाहिग्रहव्यग्रे यमुनायां जगन्निधौ ।

झम्पयाऽधोमुखे जाते विपरीतं जगत्त्रयम् ॥

 
तडागो दर्पणप्रायजलसंक्रान्तितोऽभवत् ।

जलशयीकृतः कृष्णप्रासादः कलशोपरि ॥

 
अस्ताद्विरिमस्तक मणि प्रगुणक्षमायामादर्श सन्निभरुचौ प्रतिबिम्बिताङ्गः ।

आशङ्कयय्ृते दिनमुखे वरुणेन सोऽयमभ्युद्यतो दिनकरः खलु पश्चिमायाम् ॥
 

 
भूपाल ! तव यज्ञस्य धूमवर्तिरधोमुखी ।

पयोधिप्रतिमा भाति व अश्वभ्रपावित्र्यहेतवे ॥
 

 
एवं रीतिद्वयमध्यात् यत्र या रीतिरौचित्याद् घटते तत्र तथा रीत्या निर्वाहणीयम् ।

केनापि प्रपञ्चेन विपरीतीकृतेन तदुत्तरजगत्तूयमध्यस्थितः सर्वोऽपि पदार्थो विपरीतो

भणनीयः । अस्यैव सूत्रकाव्यस्य प्रतिबद्धा समस्या यथा-
-
 

 
'कल्पादिसमये यस्मिन् कोकीटिका कुम्भिसन्निभा ।

कुम्भी पुनर्महाशैलस्पर्द्धिदेहाकृतिस्तदा ॥ २८१ ॥

 
माहात्म्यं तस्य पाथेोघेथोधेर्व्याख्यातुं कुत्र शक्यते ।

सापि यत्र बभौ तोयकोकीटिका कुम्भिसन्निभा ।

परमाणुनोर कोग्रे कीटिका कुम्भिसन्निभा ॥ २८२ ॥

 
कुम्भीन्द्रोऽपि सुवर्णाद्रिमानतः कोकीटिकायते ।

युगान्तसमये यस्मिन् वारणः कीटिकासमः ॥ २८३ ॥

 
तस्मिन् पिपीलिकामानं लक्ष्यतामिति न क्वचित् ।

महागिरिशिरःस्थानां वारणः कीटिकायते ॥ २८४ ॥

 
महापर्वतमानेन वारणः कोकीटिकायते ।

साधुचित्तानुमानेन पर्वतः कीटिकायते ॥ २८५ ॥