2023-04-12 04:24:59 by ambuda-bot
This page has not been fully proofread.
स्तबक: ७ ]
काव्य कल्पलतावृत्तिः ।
स्थूलोन्नतोऽपि परमाम्बरवर्तमानघावद्विमान चरखेचरकामिनीनाम् ।
अभ्यागतो नयनवर्त्मनि सत्यमेव 'शैलो बिभर्ति परमाणुसमत्वमेपः ॥
यतो दूरस्थितः पदार्थो गुरुरपि सुक्ष्म इव भासते । गुरुभिर्यथा-
कल्पान्तकालधरणीधरणप्रवृद्धकोलाधिराजतनुमानविलोकनेन ।
'शैलो बिभर्ति परमाणुसमत्वमेष नो कस्य लाघवमहो गुरुसन्निधाने ॥
इत्यादिगुरुतरपदार्थैर्गुरुपदार्थस्य लघुता विधेया । एवं रीतित्रयमध्याद्यत्र या रीति-
रौचित्याद् घटते तत्र तया रीत्या लघुता विधेया ॥
नीरादिषु प्रतिशरीरवशेन युग्मम्
१४९
नीरदर्पणमणिभूमिप्रभृतिषु प्रतिबिम्बवशेन एकमपि वस्तु युग्मरूपं भवति । यथा -
पश्चिमाद्रेर्मणिशिरःक्रान्ते पूर्वादिगे रखौ ।
लोकैशियते किं भोः 'समुदेति रविद्वयम्' ॥
कृष्णेन बिम्बितवशेन च वैपरीत्यम् ॥ २८० ॥
अधोमुखीकृतकृष्णेन प्रतिबिम्बितेन च वैपरीत्यं कार्यम् । यथा -
कालियाहिग्रहव्यग्रे यमुनायां जगन्निधौ ।
झम्पयाऽधोमुखे जाते विपरीतं जगत्त्रयम् ॥
तडागो दर्पणप्रायजलसंक्रान्तितोऽभवत् ।
जलशयीकृतः कृष्णप्रासादः कलशोपरि ॥
अस्ताद्विमस्तक मणि प्रगुणक्षमायामादर्श सन्निभरुचौ प्रतिबिम्बिताङ्गः ।
आशङ्कयते दिनमुखे वरुणेन सोऽयमभ्युद्यतो दिनकरः खलु पश्चिमायाम् ॥
भूपाल ! तव यज्ञस्य धूमवर्तिरधोमुखी ।
पयोधिप्रतिमा भाति व अपावित्र्यहेतवे ॥
एवं रीतिद्वयमध्यात् यत्र या रीतिरौचित्याद् घटते तत्र तथा रीत्या निर्वाहणीयम् ।
केनापि प्रपञ्चेन विपरीतीकृतेन तदुत्तरजगत्तूयमध्यस्थितः सर्वोऽपि पदार्थो विपरीतो
भणनीयः । अस्यैव सूत्रकाव्यस्य प्रतिबद्धा समस्या यथा-
-
'कल्पादिसमये यस्मिन् कोटिका कुम्भिसन्निभा ।
कुम्भी पुनर्महाशैलस्पर्द्धिदेहाकृतिस्तदा ॥ २८१ ॥
माहात्म्यं तस्य पाथेोघेर्व्याख्यातुं कुत्र शक्यते ।
सापि यत्र बभौ तोयकोटिका कुम्भिसन्निभा ।
परमाणुननोर कोटिका कुम्भिसन्निभा ॥ २८२ ॥
कुम्भीन्द्रोऽपि सुवर्णाद्रिमानतः कोटिकायते ।
युगान्तसमये यस्मिन् वारणः कीटिकासमः ॥ २८३ ॥
तस्मिन् पिपीलिकामानं लक्ष्यतामिति न क्वचित् ।
महागिरिशिरःस्थानां वारणः कीटिकायते ॥ २८४ ॥
महापर्वतमानेन वारणः कोटिकायते ।
साधुचित्तानुमानेन पर्वतः कीटिकायते ॥ २८५ ॥